नराभरणम् /44
This page has been fully proofread once and needs a second look.
<page>
<verse lang="sa" text="A" n="259">ग्रहणसमयवेला (प्रविश झटिति गेहं) मा बहिस्तिष्ठ बाले
ग्रहणसमयवेला वर्तते शीतरश्मेः ।
तव मुखमकलङ्कं वीक्ष्य राहुश्च नूनं
ग्रसति तव मुखेन्दुं चन्द्रबिम्बं विहाय ॥ २५९ ॥
</verse>
<verse lang="sa" text="A" n="260">जाता लता हि शैले जातु लतायां न जायते शैलः ।
सम्प्रति तद्विपरीतं कनकलतायां गिरिद्वयं जातम् ॥ २६० ॥
</verse>
<verse lang="sa" text="A" n="261">इन्दिन्दिरो मरन्दे विमुखो यदि किन्नु मधुनि माहात्म्यम् ।
रसिको वाञ्छति नो चेत् .... धरबिम्बमस्य को भूमा (?) ॥ २६१ ॥
</verse>
<verse lang="sa" text="A" n="262">अप्यखिलालङ्कारानाकलयन्तोऽपि रसविदश्चित्रम् ।
कलयन्ति सरसकाव्ये नालङ्कारं[^]१ कदाचिदपि ॥ २६२ ॥
</verse>
<verse lang="sa" text="A" n="263">काचिद्बाला रमणवसतिं प्रेषयन्ती करण्डं
सा तन्मूले समयमलिखव्यालमस्योपरिष्टात् ।
गौरीकान्तं पवनतनयं चम्पकं चास्य भावं
पृच्छत्यग्रे सदसि विदुषां मल्लिनाथः कवीन्द्रः ॥ २६३ ॥
</verse>
<verse lang="sa" text="A" n="264">शुनां च पिशुनानां च परवेश्मप्रवेशिनाम् ।
प्रयोजनं न जानीमः पात्राणां दूषणाहते ॥ २६४ ॥
</verse>
<verse lang="sa" text="A" n="265">जीवनग्रहणे नम्राः गृहीत्वा पुनरुत्थिताः ।
किं कनिष्ठाः किमु ज्येष्ठाः घटीयन्त्रस्य दुर्जनाः ॥ २६५ ॥
</verse>
<verse lang="sa" text="A" n="266">यथा ग्रामविशुद्ध्यर्थं सूकरः परिकल्पितः ।
साधुपापविशुद्ध्यर्थं दुर्जनः परिकल्पितः ॥ २६६ ॥
</verse>
<ignore lang="sa">---
</ignore>
<footnote lang="sa" text="A" mark="१. ">न अलंबुद्धिमित्यर्थः ।</footnote>
</page>
<verse lang="sa" text="A" n="259">ग्रहणसमयवेला (प्रविश झटिति गेहं) मा बहिस्तिष्ठ बाले
ग्रहणसमयवेला वर्तते शीतरश्मेः ।
तव मुखमकलङ्कं वीक्ष्य राहुश्च नूनं
ग्रसति तव मुखेन्दुं चन्द्रबिम्बं विहाय ॥ २५९ ॥
<verse lang="sa" text="A" n="260">जाता लता हि शैले जातु लतायां न जायते शैलः ।
सम्प्रति तद्विपरीतं कनकलतायां गिरिद्वयं जातम् ॥ २६० ॥
<verse lang="sa" text="A" n="261">इन्दिन्दिरो मरन्दे विमुखो यदि किन्नु मधुनि माहात्म्यम् ।
रसिको वाञ्छति नो चेत् .... धरबिम्बमस्य को भूमा (?) ॥ २६१ ॥
<verse lang="sa" text="A" n="262">अप्यखिलालङ्कारानाकलयन्तोऽपि रसविदश्चित्रम् ।
कलयन्ति सरसकाव्ये नालङ्कारं[^]१ कदाचिदपि ॥ २६२ ॥
<verse lang="sa" text="A" n="263">काचिद्बाला रमणवसतिं प्रेषयन्ती करण्डं
सा तन्मूले समयमलिखव्यालमस्योपरिष्टात् ।
गौरीकान्तं पवनतनयं चम्पकं चास्य भावं
पृच्छत्यग्रे सदसि विदुषां मल्लिनाथः कवीन्द्रः ॥ २६३ ॥
<verse lang="sa" text="A" n="264">शुनां च पिशुनानां च परवेश्मप्रवेशिनाम् ।
प्रयोजनं न जानीमः पात्राणां दूषणाहते ॥ २६४ ॥
<verse lang="sa" text="A" n="265">जीवनग्रहणे नम्राः गृहीत्वा पुनरुत्थिताः ।
किं कनिष्ठाः किमु ज्येष्ठाः घटीयन्त्रस्य दुर्जनाः ॥ २६५ ॥
<verse lang="sa" text="A" n="266">यथा ग्रामविशुद्ध्यर्थं सूकरः परिकल्पितः ।
साधुपापविशुद्ध्यर्थं दुर्जनः परिकल्पितः ॥ २६६ ॥
<ignore lang="sa">---
<footnote lang="sa" text="A" mark="१
</page>