2022-09-29 15:01:09 by sanskrit_hitaay

This page has been fully proofread once and needs a second look.

॥ मलयमारुतः ॥
 
ग्रहणसमयवेला ( प्रविश झटिति गेहं) मा बहिस्तिष्ठ बाले

ग्रहणसमयवेला वर्तते शीतरश्मेः ।

तव मुखमकलङ्कं वीक्ष्य राहुश्च नूनं
 

ग्र
सति तव मुखेन्दुं चन्द्रबिम्बं विहाय ॥ २५९ ॥
 

 
जाता लता हि शैले जातु लतायां न जायते शैलः ।

सम्प्रति तद्विपरीतं कनकलतायां गिरिद्वयं जातम् ॥ २६० ॥
 

 
इन्दिन्दिरो मरन्दे विमुखो यदि किन्नु मधुनि माहात्म्यम् ।

रसिको वाञ्छति नो चेत् .... रबिम्बमस्य को भूमा (?) ॥ २६१ ॥
 

 
अप्यखिलालङ्काराना कलयन्तोऽपि रसविदश्चित्रम् ।
 

कलयन्ति सरसकाव्ये नालङ्कारं[^]१ कदाचिदपि ॥ २६२ ॥
 

 
काचिद्वाबाला रमणवसतिं प्रेषयन्ती करण्डं
 

सा तन्मूले समयमलिखव्यालमस्योपरिष्टात् ।
 

गौरीकान्तं पवनतनयं चम्पकं चास्य भा
 
वं
पृच्छत्यग्रैरे सदसि विदुषां मल्लिनाथः कवीन्द्रः ॥ २६३ ॥
 

 
शुनां च पिशुनानां च परवेश्मप्रवेशिनाम् ।
 

प्रयोजनं न जानीमः पात्राणां दूषणाहते ॥ २६४ ॥
 

 
जीवनग्रहणे नम्राः गृहीत्वा पुनरुत्थिताः ।
 

किं कनिष्ठाः किमु ज्येष्ठाः घटीयन्त्रस्य दुर्जनाः ॥ २६५ ॥
 

 
यथा ग्रामविशुद्ध्यर्थं सूकरः परिकल्पितः ।

साधुपापविशुद्ध्यर्थं दुर्जनः परिकल्पितः ॥ २६६ ॥
 

 
---
 
१. न अलंबुद्धिमित्यर्थः ।