This page has not been fully proofread.

॥ मलयमारुतः ॥
 
ग्रहणसमयवेला ( प्रविश झटिति गेहं) मा बहिस्तिष्ठ बाले
ग्रहणसमयवेला वर्तते शीतरश्मेः ।
तव मुखमकलङ्कं वीक्ष्य राहुश्च नूनं
 
असति तव मुखेन्दुं चन्द्रबिम्बं विहाय ॥ २५९ ॥
 
जाता लता हि शैले जातु लतायां न जायते शैलः ।
सम्प्रति तद्विपरीतं कनकलतायां गिरिद्वयं जातम् ॥ २६० ॥
 
इन्दिन्दिरो मरन्दे विमुखो यदि किन्नु मधुनि माहात्म्यम् ।
रसिको वाञ्छति नो चेत् .... घरबिम्बमस्य को भूमा (?) ॥ २६१ ॥
 
अप्यखिलालङ्काराना कलयन्तोऽपि रसविदश्चित्रम् ।
 
कलयन्ति सरसकाव्ये नालङ्कारं कदाचिदपि ॥ २६२ ॥
 
काचिद्वाला रमणवसतिं प्रेषयन्ती करण्डं
 
सा तन्मूले समयमलिखयालमस्योपरिष्टात् ।
 
गौरीकान्तं पवनतनयं चम्पकं चास्य भाव
 
पृच्छत्यग्रै सदसि विदुषां मल्लिनाथः कवीन्द्रः ॥ २६३ ॥
 
शुनां च पिशुनानां च परवेश्मप्रवेशिनाम् ।
 
प्रयोजनं न जानीमः पात्राणां दूषणाहते ॥ २६४ ॥
 
जीवनग्रहणे नम्राः गृहीत्वा पुनरुत्थिताः ।
 
किं कनिष्ठाः किमु ज्येष्ठाः घटीयन्त्रस्य दुर्जनाः ॥ २६५ ॥
 
यथा ग्रामविशुद्धयर्थं सूकरः परिकल्पितः ।
साधुपापविशुद्धयर्थं दुर्जनः परिकल्पितः ॥ २६६ ॥
 
१. न अलंबुद्धिमित्यर्थः ।