2022-09-29 14:55:55 by sanskrit_hitaay

This page has been fully proofread once and needs a second look.

॥ नराभरणम् ॥
कस्त्वं भद्र खलेश्वरोऽहमिह किं घोरे वने स्थीयते
 

व्यालव्याघ्रमृगादिभि:भिः(दन?) प्रह(भृ?) तिभिः खाद्योऽहमित्याशया ।

दिष्टया शालि (न्ति ?)रहो किमध्यवसिता मद्देहमांसाशन-

प्रत्युत्पन्ननृमांसभक्षणरसाः खादख (न्तु) सर्वानिति ॥ २५२ ॥
 

 
त्वद्विरहमसहमाना निन्दति बाला दिवानिशं शम्भुम् ।

राहुमपि रामभद्रं रामानुजमपि च पन्नगारातिम् ॥ २५३ ॥
 

 
तन्वङ्ग्या नवसङ्गमे निपुणतां दृष्टाट्वान्यथाशङ्किनः
 

भर्तुश्चित्तमवेक्ष्य सापि चतुरा भित्तौ किमप्यालिखत् ।

एकं मत्तमतङ्गजं तदुपरि क्रोधात्पतन्तं शिशुं
 

सिंहीगर्भविनिस्सृतं पुनरसौ दृष्टा स हृष्टोऽभवत् ॥ २५४ ॥
 

 
कचभारात्कुचभार: कुचभाराङ्गीतिमेति कचभारः कुचभाराद्भीतिमेति कचभारः

कचकुचभाराज्जघनं कोऽयं चन्द्रानने चमत्कारः ॥ २५५ ॥
 

 
बदनात्पदयुगलीयं वचनादरश्च दन्तपङ्क्तिश्चि
 

कु (क)चत: कुचयुगलीयं लोचनयुगलं च मध्यतस्त्रसति ॥ २५६ ॥
 

 
कुसुमे कुसुमोत्पत्तिः श्रूयते न च दृश्यते ।
 

बाले तव मुखाम्भोजे दृष्टमिन्दीवरद्वयम् ॥ २५७ ॥
 

 
बाले तवाघरसुधारसपानकाले
 

चेतो मदीयमभिवाञ्छति शेषभावम् ।

आलिङ्गने तव विरोचनपौत्रभावम्
 
७७
 

आखण्डलत्वमखिलाङ्गनिरीक्षणेषु ॥ २५८ ॥