This page has not been fully proofread.

॥ नराभरणम् ॥
कस्त्वं भद्र खलेश्वरोऽहमिह किं घोरे वने स्थीयते
 
व्यालव्याघ्रमृगादिभि:(दन?) प्रह(भृ?) तिभिः खाद्योऽहमित्याशया ।
दिष्टया शालि (न्ति ?)रहो किमध्यवसिता मद्देहमांसाशन-
प्रत्युत्पन्ननृमांसभक्षणरसाः खादख (न्तु) सर्वानिति ॥ २५२ ॥
 
त्वद्विरहमसहमाना निन्दति बाला दिवानिशं शम्भुम् ।
राहुमपि रामभद्रं रामानुजमपि च पन्नगारातिम् ॥ २५३ ॥
 
तन्वङ्ग्या नवसङ्गमे निपुणतां दृष्टान्यथाशङ्किनः
 
भर्तुश्चित्तमवेक्ष्य सापि चतुरा भित्तौ किमप्यालिखत् ।
एकं मत्तमतङ्गजं तदुपरि क्रोधात्पतन्तं शिशुं
 
सिंहीगर्भविनिस्सृतं पुनरसौ दृष्टा स हृष्टोऽभवत् ॥ २५४ ॥
 
कचभारात्कुचभार: कुचभाराङ्गीतिमेति कचभारः ।
कचकुचभाराज्जघनं कोऽयं चन्द्रानने चमत्कारः ॥ २५५ ॥
 
बदनात्पदयुगलीयं वचनादघरश्च दन्तपश्चि ।
 
कु (क)चत: कुचयुगलीय लोचनयुगलं च मध्यतस्त्रसति ॥ २५६ ॥
 
कुसुमे कुसुमोत्पत्तिः श्रूयते न च दृश्यते ।
 
बाले तव मुखाम्भोजे दृष्टमिन्दीवरद्वयम् ॥ २५७ ॥
 
बाले तवाघरसुधारसपानकाले
 
चेतो मदीयमभिवाञ्छति शेषभावम् ।
आलिङ्गने तव विरोचनपौत्रभावम्
 
७७
 
आखण्डलत्वमखिलाङ्गनिरीक्षणेषु ॥ २५८ ॥