This page has been fully proofread once and needs a second look.

<page>
<verse lang="sa" text="A" n="244">
असज्जनेन संसर्गादसत्तां यान्ति साधवः ।

मधुरं शीतलं तोयं पावकं प्राप्य तप्यते ॥ २४४ ॥
 
</verse>
<verse lang="sa" text="A" n="245">
दुर्जनभृशसंसर्गात् साधुजनस्तस्य दोषमायाति ।

दशमुखकृतापराधात् अब्धिर्बद्धः शिलाभरैः कीशैः ॥ २४५ ॥
 
</verse>
<verse lang="sa" text="A" n="246">
न स्थातव्यं न गन्तव्यं (क्षणमप्यधमैस्सह) ।

पयोऽपि शौण्डिनीहस्ते वारुणीत्यभिधीयते ॥ २४६ ॥
 
</verse>
<verse lang="sa" text="A" n="247">
कस्तूरिकां तृणभुजामटवीमृगाणां

निक्षिप्य ना(भिषु चकार) च तान्वधार्हान् ।

मूढो विधिस्सकलदुर्जनसङ्घजिह्वा-

मूलेषु निक्षिपति चेत्सकलोपकारः ॥ २४७ ॥
 
</verse>
<verse lang="sa" text="A" n="248">
खलानामलकानां च धृतानां मूर्ध्नि भीरुभिः ।

उपर्युपरि संस्कारात् भूयो भवति वक्रता ॥ २४८ ॥
 
</verse>
<verse lang="sa" text="A" n="249">
खलजिह्वा च नौका च प्रतिकूलप्रवर्तिनी ।

प्रतार(णा)य लोकस्य दारुणा केन निर्मिता ॥ २४९ ॥
 
</verse>
<verse lang="sa" text="A" n="250">
विषधरतोऽप्यतिविषमः

खल इति न मृषा वदन्ति सन्तोऽपि ।

यदयं नकुलद्वेषी

सकुलद्वेषी पुनः पिशुनः ॥ २५० ॥
 
</verse>
<verse lang="sa" text="A" n="251">
खलानां कण्टकानां च द्विविधैव प्रतिक्रिया ।

उपानन्मुखभङ्गो वा दूरतो वा विसर्जनम् ॥ २५१ ॥</verse>
</page>