This page has not been fully proofread.

॥ मलयमारुतः ॥
 
असज्जनेन संसर्गादसत्तां यान्ति साधवः ।
 
मधुरं शीतलं तोयं पावकं प्राप्य तप्यते ॥ २४४ ॥
 
दुर्जनभृशसंसर्गात् साधुजनस्तस्य दोषमायाति ।
 
दशमुखकृतापराधात् अब्धिर्वद्धः शिलाभरैः कीशैः ॥ २४५ ॥
 
न स्थातव्यं न गन्तव्यं (क्षणमप्यधमैस्सह) ।
 
पयोsपि शौण्डिनीहस्ते वारुणीत्यभिधीयते ॥ २४६ ॥
 
कस्तूरिकां तृणभुजामटवीमृगाणां
 
निक्षिप्य ना (भिषु चकार) च तान्वधार्हान् ।
मूढो विधिस्सकलदुर्जनसङ्घजिह्वा-
मूलेषु निक्षिपति चेत्सकलोपकारः ॥ २४७ ॥
 
खलानामलकानां च धृतानां मूर्ध्नि भीरुभिः ।
 
उपर्युपरि संस्कारात् भूयो भवति वक्रता ॥ २४८ ॥
 
स्खलजिह्वा च नौका च प्रतिकूलप्रवर्तिनी ।
 
प्रतार ( णा )य लोकस्य दारुणा केन निर्मिता ॥ २४९ ॥
 
विषधरतोऽप्यतिविषमः
 
खल इति न मृषा वदन्ति सन्तोऽपि ।
 
यदयं नकुलद्वेषी
 
सकुलद्वेषी पुनः पिशुनः ॥ २५० ॥
 
खलानां कण्टकानां च द्विविधैव प्रतिक्रिया ।
उपानन्मुखभङ्गो वा दूरतो वा विसर्जनम् ॥ २५१ ॥