2022-09-28 16:47:54 by sanskrit_hitaay

This page has been fully proofread once and needs a second look.

॥ नराभरणम् ॥
 
गृहीतशिश्नश्चोत्थाय मृद्भिरभ्युद्धतैर्जलैः ।

गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः ॥ २३५ ॥
 

 
अपि सहवसतामसतां जलरुह (जल) वद्भवत्य संश्लेषः ।

दूरेऽपि सतां वसतां (प्रीतिः कुमु) देन्दुवद्भाति ॥ २३६ ॥
 

 
गर्जति शरदि न वर्षति वर्षति वर्षासु निस्स्वनो मेघः ।

नीचो वदति न कुरुते न वदति सुजनः करोत्येव ॥ २३७ ॥
 

 
अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् ।

सदा लोकहितासक्त्या रत्नदीपा इवोत्तमाः ॥ २३८ ॥
 

 
( यन्मनीषिपदाम्भोजरज:जः) कणपवित्रितम् ।

तदेव भवनं नो चेद्भकारस्तत्र लुप्यते ॥ २३९ ॥
 

 
श्
लोकस्तु श्लोकतामेति यत्र तिष्ठ (न्ति) (साधवः) ।

तैर्विहीने सभामध्ये लकारस्तत्र लुप्यते ॥ २४० ॥
 

 
उन्मत्त कण्टकिफलप्रतियोगिबुद्ध्या
 

वैरं वृथैव कुरुषे पनसेन साकम् ।

सन्तो हसन्ति न भजन्ति भजन्ति चेत्त्वां
 

भ्रान्ता भवन्ति सहसेति जगत्प्रसिद्धिः ॥ २४१ ॥
 

 
सुजन व्यजनं मन्ये महावंशसमुद्भवम् ।
 

स्वपरिभ्रमणेनैव तापं हरति देहिनाम् ॥ २४२ ॥
 

 
गुणलक्षं परित्यज्य दोषं गृह्णाति दुर्जनः ।
 

घेनोः पयोधरस्थोऽपि गोपिडो लोहिताशनः ॥ २४३ ॥