This page has been fully proofread once and needs a second look.

<page>
<verse lang="sa" text="A" n="226">
ततोऽभिवादयेद्विप्रान् श्रोत्रियांश्च गुरूनपि ।

सायं प्रातश्च होतव्यं कर्तव्यञ्चात्मनो हितम् ॥ २२६ ॥
 
</verse>
<verse lang="sa" text="A" n="227">
पाषण्डं पतितं व्रात्यं महापातकिनं शठम् ।

....स्थं कृतघ्नं च नाभिवाद्येत्कदाचन ॥ २२७ ॥
 
</verse>
<verse lang="sa" text="A" n="228">
कृताभिवादि(द)नं (पूर्वं) यः पुनर्नाभिवादयेत् ।

स्मशाने जायते वृक्षः कङ्कगृध्रोपसेवितः ॥ २२८ ॥
 
</verse>
<verse lang="sa" text="A" n="229">
प्रतिपत्पर्व षष्ठी च नवमी द्वादशी तथा ।

दन्तानां काष्ठसंयोगं प्रयत्नेन विवर्जितः (र्जयेत्) ॥ २२९ ॥
 
</verse>
<verse lang="sa" text="A" n="230">
खदिरश्च कदम्बश्च सोमबिल्वस्तथैव च ।

उदुम्बररुहश्चैव ये चान्ये पुण्यभूरुहः ॥ २३० ॥
 
</verse>
<verse lang="sa" text="A" n="231">
एते प्रशस्ततरवः दन्तधावनकर्मणि ।

कण्टकीक्षीरवृक्षोत्थद्वादशाङ्गुलमव्रणम् ॥ २३१ ॥
 
</verse>
<verse lang="sa" text="A" n="232">
कनिष्ठाङ्गुलिवत् स्थूलं पूर्वार्धकृतकुञ्चितम् ।

अभावे दन्तकाष्ठस्य प्रतिषिद्धदिनेऽपि च ।

अपां द्वादशगण्डूषैः मुखशुद्धिर्भविष्यति ॥ २३२ ॥
 
</verse>
<verse lang="sa" text="A" n="233">
मूत्रे सम्यक् पुरीषे तु दिवा कुर्यादुदङ्मुखः ।

दक्षिणाभिमुखो रात्रौ सन्ध्ययोरुभयोस्तथा ॥ २३३ ॥
 
</verse>
<verse lang="sa" text="A" n="234">
दिवा सन्ध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः ।

कुर्यान्मूत्रपुरीषे च रात्रौ चेद्दक्षिणामुखः ॥ २३४ ॥</verse>
</page>