2022-09-28 16:39:51 by sanskrit_hitaay

This page has been fully proofread once and needs a second look.

॥ नराभरणम् ॥
 
संहताङ्गुलिना तोयं गृहीत्वा पाणिना द्विजः ।

मुक्ताङ्गुष्ठकनिष्ठे तु शिष्टमाचमनं पिबेत् ॥ २१६ ॥
 

 
जनिता चोपनेता च यश्च विद्यां प्रयच्छति ।
 

अन्नदाता भयत्राता पञ्चैते पितरस्स्मृताः ॥ २१७ ॥
 

 
गुरुपत्नी राजपत्नी ज्येष्ठ पत्नी तथैव च ।
 

पत्नी माता स्वयं (स्व-) माता (च) पञ्चैता मातरस्स्मृताः ॥ २१८ ॥
 

 
पुस्तकेषु च या विद्या परहस्तेषु यद्धनम् ।
 

युद्धकाले गृहे शस्त्रं त्रीणि कार्यं वृथा ( विना ?) वृथा ॥ २१९ ॥
 

 
मरणान्तानि वैराणि प्रसवान्तं च यौवनम् ।
 

कुपितं प्रणयान्तं च याचितान्तं च गौरवम् ॥ २२० ॥
 

 
अश्वारूढं पयःपानं गजारूढं तु मैथुनम् ।
 

आन्दोलिकायां मर्दनं च पादचारी (रि?) तु भोजनम् ॥ २२१ ॥
 

 
अतिदानाद्धतः कर्णः अतिलोभात्सुयोधनः ।
 

अतिकामाद्दशग्रीवः अति सर्वत्र वर्जयेत् ॥ २२२ ॥
 

 
इङ्गितज्ञा मागधास्स्युः प्रेक्षितज्ञाश्च कोसलाः ।

अर्धोक्ताः
 
:
कुरुपाञ्चाला स्पष्टोक्त्या दक्षिणापथाः ॥ २२३ ॥
 
७३
 

 
पद्यमङ्गुलिविच्छेदमुरोविन्यस्तमक्षरम् ।
 

तन्नामकरणं चैव दास्यमेतच्चतुर्विधम् ॥ २२४ ॥
 

 
अभिवादनशीलस्य नित्यं वृद्धोपजी (से) विन: ।
 
विनः ।
चत्वारि तस्य वर्द्धन्ते आयु:युः प्रज्ञा यशो बलम् ॥ २२५ ॥
 
10