This page has not been fully proofread.

॥ नराभरणम् ॥
 
संहताङ्गुलिना तोयं गृहीत्वा पाणिना द्विजः ।
मुक्ताङ्गुष्ठकनिष्ठे तु शिष्टमाचमनं पिबेत् ॥ २१६ ॥
 
जनिता चोपनेता च यश्च विद्यां प्रयच्छति ।
 
अन्नदाता भयत्राता पञ्चैते पितरस्स्मृताः ॥ २१७ ॥
 
गुरुपत्नी राजपत्नी ज्येष्ठ पत्नी तथैव च ।
 
पत्नी माता स्वयं ( ख ) माता (च) पञ्चैता मातरस्स्मृताः ॥ २१८ ॥
 
पुस्तकेषु च या विद्या परहस्तेषु यद्धनम् ।
 
युद्धकाले गृहे शस्त्रं त्रीणि कार्य वृथा ( विना ?) वृथा ॥ २१९ ॥
 
मरणान्तानि वैराणि प्रसवान्तं च यौवनम् ।
 
कुपितं प्रणयान्तं च याचितान्तं च गौरवम् ॥ २२० ॥
 
अश्वारूढं पयःपानं गजारूढं तु मैथुनम् ।
 
आन्दोलिकायां मर्दनं च पादचारी (रि?) तु भोजनम् ॥ २२१ ॥
 
अतिदानाद्धतः कर्णः अतिलोभात्सुयोधनः ।
 
अतिकामाद्दशग्रीवः अति सर्वत्र वर्जयेत् ॥ २२२ ॥
 
इङ्गितज्ञा मागधास्स्युः प्रेक्षितज्ञाश्च कोसलाः ।
अर्धोक्ताः
 
: कुरुपाञ्चाला स्पष्टोक्त्या दक्षिणापथाः ॥ २२३ ॥
 
७३
 
पद्यमङ्गुलिविच्छेदमुरोविन्यस्तमक्षरम् ।
 
तन्नामकरणं चैव दास्यमेतच्चतुर्विधम् ॥ २२४ ॥
 
अभिवादनशीलस्य नित्यं वृद्धोपजी (से) विन: ।
 
चत्वारि तस्य वर्द्धन्ते आयु: प्रज्ञा यशो बलम् ॥ २२५ ॥
 
10