This page has not been fully proofread.

॥ मलयमारुतः ॥
 
यातुधानपिशाचाश्च क्रूराश्चैव तु राक्षसाः ।
 
हरन्ति रसमन्नस्य मण्डलेन विवर्जितम् ॥ २०६ ॥
 
सदण्डं कदलीपत्र वामभागाग्रं विन्यसेत् ।
दक्षिणेऽग्रं समादाय भुक्ता चान्द्रायणं चरेत् ॥ २०७ ॥
 
आपोशनं चासनं च तैलाभ्यङ्गं तथैव च ।
स्वयं करकृतं चैव आयुः श्रीपुत्रनाशनम् ॥ २०८ ॥
 
दीपप्रशमनं पुंसां स्त्रीणां कूष्माण्डखण्डनम् ।
अचिरेणैव कालेन वंशच्छेदो भविष्यति ॥ २०९ ॥
 
अस्नाताशी मलं भुङ्क्ते अजपी पूयभक्षणम् ।
अहुताशी विषं भुङ्क्ते अदाता विषमश्नुते ॥ २१०॥
 
ज्ञाननिमित्तं गुरूपदेशः कलहनिर्मित निष्ठुरवाणी ।
मरणनिमित्तं गुणविपरीतम् उदरनिमित्तं बहुकृतवेषम् ॥ २११ ॥
 
एकाहं जपहीनस्तु सन्ध्याहीनो दिनत्रयम् ।
 
द्वादशाहमनभिस्तु शूद्र एव न संशयः ॥ २१२ ॥
 
विद्वत्सङ्गे विवाहे च यज्ञे श्रीपतिदर्शने ।
 
सन्ध्यावन्दनविच्छित्तिः न दोषाय कदाचन ॥ २१३ ॥
 
पादौ प्रक्षाल्य यच्छेषं तदाचामेन्नराधमः ।
श्वानमूत्र समं तोयम् (इत्ये) वं मनुरब्रवीत् ॥ २१४ ॥
 
ओङ्कारः पुरुषः पूर्वः व्याहृतिः प्रकृति(:) स्त्रियः ।
उभयोः करसंयोगे वस्त्रेणाच्छादयेन्नरः ॥ २१५ ॥