2022-09-27 16:05:19 by sanskrit_hitaay

This page has been fully proofread once and needs a second look.

॥ मलयमारुतः ॥
 
ज्ञानवृद्धास्तपोवृद्धाश्शीलवृद्धास्तथैव च ।
 

सर्वे ते धनवृद्धस्य द्वारे तिष्ठन्ति किंकराः ॥ १८८ ॥
 

 
श्रुत्वा वेदमने कशास्त्रपठनात् (नं?) किं तेन ज्ञानं विना (ज्ञानं विना तेन किं ?)
?)
स्नानं तर्पणहोममप्यनुदिनं किं तेन दानं विना ।
 

गीता (त्वा?) राख (ग) मनेकशास्त्र (ताल ? ) ?)गणनं किं तेन कण्ठं विना

ताम्बूलादि विभूषणै:णैः (णं?) परिमलै: (ल: लैः (लः?) किं तेन
 
काव्यं [कान्तां ? ?] विना ॥ १८९ ॥
 

 
माषो नं (न?) माषद्रव्य :यः (व्यं?) स्यात्
 

सन्ध्यायामेव याचकः ( सन्ध्याचमनवाचक : १) ।
 
कः?) ।
करान्तरस्थिता रेखा
 

माषास्ता:ताः परिकीर्तिताः ॥ १९० ॥
 

 
गोकर्णाकृतिहस्तेन माषमग्नजलं पिबेत् ।
 

तन्
न्यूनमधिकं पीत्वा सुरापानसमं पिबेत् ( भवेत् ? ?) ॥ १९१ ॥
 

 
शब्देनापः : पय:यः पीत्वा शब्देन घृतपायसम् ।

आपोशनं सोमपानं सुरापानसमं भवेत् ॥ १९२ ॥
 

 
अतिथि:थिः द्वारि तिष्ठेत आपो गृह्णाति यो नर ।
 

आपोशनं सुरापानमन्त्रंनं गोमांसभक्षणम् ॥ १९३ ॥
 

 
स्नाने दाने जपे होमे स्वाध्याये पितृतर्पणे ।

एकवस्त्रो द्विजः कुर्यात् तत्सर्वं निष्फलं भवेत् ॥ १९.४ ॥
 

 
स्नानवस्त्रेण यो विप्रः शरीरं परिमार्जयेत् ।
 

वृथा भवति तत्स्नानं पुनः स्नानेन शुध्यति ॥ १९५ ॥