2022-09-27 16:01:34 by sanskrit_hitaay

This page has been fully proofread once and needs a second look.

॥ नराभरणम् ॥
 
मृद्विना मासशौचं स्यात्पक्षे होम: मः( मं?) तु वर्जयेत् ।
 

उष्णोदकं सप्तरात्रं द्विजश्शूत्वाद्रत्वमाप्नुयात् ॥ १८१ ॥
 

 
नैकः पन्थानमागच्छेत् न वसेद्धाबामन्दिरे ।
 

जनवास (-क्यं) च (न?) कर्तव्यं न स्त्रीवाक्यं कदाचन ॥ १८२ ॥
 

 
अन्नं मुक्तासुवर्णं द्रवगुणरहितास्वर्णपू (रू) पाश्च सूपाः
 

सामोदाश्शाकभेदाः फलगुडमिलिता:ताः पायसम्.... ।

यावद्भोज्यं तदाज्यं दधि कठिनतरं नैकरूपास्त्वपूपाः
 

भुज्यन्ते भूसुरौघैर्महति तव गृहे रामचन्द्रस्य तृप्त्यै ॥ १८३ ॥
 

 
अन्नं किंशुकपुष्पपुञ्जसदृशं पाषाणजालैर्युतं
 

धूम्यं गन्धयुतं च जालमखिलं भग्नाश्च दन्तालयः ।

आज्यं दूरतरं न चापि लवणं न श्रूयते तिन्त्रिणी
 
६९
 

भक्ष्याणां वचनं च नास्ति हि सखे तद्भोजनं वर्णये ॥ १८४ ॥
 

 
शाकैरनेकैर्नलभीमपाकैः सूपैरपूपैरमृतायमानैः ।
 

आज्यप्रवाहैश्च दधिप्रवाहैः ते भुञ्जते मानवपुण्यवन्तः ॥ १८५ ॥
 
खौ

 
रवौ
पुष्पं गुरौ दूर्वावां भृगौ गोमयमेव च ।

भौमे भूमिं विनिक्षिप्य तैलाभ्यङ्गं समाचरेत् ॥ १८६ ॥
 

 
को देशः कुत्र पुर्यायां तव वसतिररे किं च गोत्रं च शाखा

का ते किं नाम सत्यं वद किमु पठितं वेदशास्त्रं च किन्नु ।

इत्थं पृष्टा धनाढ्यो वितरति च पुरः काचिकां (काकिणीं?) ब्राह्मणेभ्यो

हृष्टेभ्यस्सर्ववित्तं (वितरति हि भवान् ? ) दृष्टमात्रेण चित्रम् ॥ १८७ ॥