2022-09-26 18:24:07 by sanskrit_hitaay

This page has been fully proofread once and needs a second look.

६८
 
॥ मलयमारुतः ॥
स्याद्राजा यदि सुन्दरो नहि यदि स्यात्सुन्दरो निर्गुणः

स्याच्चेत्पूर्णगुणो बलेन रहितः स्याच्चेद्बली कातरः ।

वीरश्चेद्विनयोज्झितः (सविनय:यः) स्याच्चैन्न दानोत्सुकः
 

स्याद्राजा (द्दाता ?) यदि नातिलोक ( भ?) विमुखं (ख:खः?)

त्वं चेद्गुणानां निधि:धिः(?) ॥ १७४ ॥
 

 
छायाभिः प्रथमं ततश्च कुसुमैः पश्चात्फलैस्स्वादुभिः
 

प्रीणात्येष तरुर्महानयमिति श्रान्तैस्समाश्रीयते ।

को जानाति तदीयकोटरपुटे प्रत्यग्रहालाहल-

ज्वालाजालजटालपाटलफणः क्रूरः फणी वर्तते ॥ १७५ ॥
 

 
निर्जितारिधरणीरौ भुजौ
 

वर्जितान्यहरिणीदृशौ दृशौ ।
 

यस्य दानमहिमाकरौ करौ
 

संस्कृतार्थवचनोन्मुखं मुखम् ॥ १७६ ॥
 

 
गुणिनि गुणज्ञो रमते नागुण (शील) स्य गुणिनि परितोषः ।

अलिरेति वनात्कमलं न दर्दुरस्त्वेकवासोऽपि ॥ १७७ ॥
 

 
असन्तुष्टो द्विजो नष्टः सन्तुष्ट:टः क्षत्रियस्तथा ।
 

सलज्जा गणिका नष्टा पण्यस्त्रीभिः (निर्लज्जा च?) कुलाङ्गना ॥ १७८ ॥
 

 
जिह्वा दग्धा परान्नेन हस्तो दग्धः परिग्रहात् ।
 

मनो दग्धं परस्त्रीभिः ब्रह्मशापः कुतः कलौ ॥ १७९ ॥
 

 
अप्सु प्लवन्ते पाषाणा: मानुषा घ्नन्ति राक्षसान् ।
 

कपयः कर्म कुर्वन्ति कालस्य कुटिला गतिः ॥ १८० ॥