This page has not been fully proofread.

६८
 
॥ मलयमारुतः ॥
स्याद्राजा यदि सुन्दरो नहि यदि स्यात्सुन्दरो निर्गुणः
स्याच्चेत्पूर्णगुणो बलेन रहितः स्याचेली कातरः ।
वीरश्चेद्विनयोज्झितः (सविनय:) स्याच्चैन्न दानोत्सुकः
 
स्याद्राजा (द्दाता ?) यदि नातिलोक ( भ?) विमुखं (ख:?)
त्वं चेद्गुणानां निधि:(?) ॥ १७४ ॥
 
छायाभिः प्रथमं ततश्च कुसुमैः पश्चात्फलैस्वादुभिः
 
प्रीणात्येष तरुर्महानयमिति श्रान्तैस्समाश्रीयते ।
को जानाति तदीयकोटरपुटे प्रत्यग्रहालाहल-
ज्वालाजालजटालपाटलफणः क्रूरः फणी वर्तते ॥ १७५ ॥
 
निर्जितारिधरणीघरौ भुजौ
 
वर्जितान्यहरिणीदृशौ दृशौ ।
 
यस्य दानमहिमाकरौ करौ
 
संस्कृतार्थवचनोन्मुखं मुखम् ॥ १७६ ॥
 
गुणिनि गुणज्ञो रमते नागुण (शील) स्य गुणिनि परितोषः ।
अलिरेति वनात्कमलं न दर्दुरस्त्वेकवासोऽपि ॥ १७७ ॥
 
असन्तुष्टो द्विजो नष्टः सन्तुष्ट: क्षत्रियस्तथा ।
 
सलज्जा गणिका नष्टा पण्यस्त्रीभिः (निर्लज्जा च?) कुलाङ्गना ॥ १७८ ॥
 
जिह्वा दग्धा परान्नेन हस्तो दग्धः परिग्रहात् ।
 
मनो दग्धं परस्त्रीभिः ब्रह्मशापः कुतः कलौ ॥ १७९ ॥
 
अप्सु प्लवन्ते पाषाणा: मानुषा नन्ति राक्षसान् ।
 
कपयः कर्म कुर्वन्ति कालस्य कुटिला गतिः ॥ १८० ॥