2022-09-25 17:21:57 by sanskrit_hitaay

This page has been fully proofread once and needs a second look.

॥ नराभरणम् ॥
 
ईशस्य कण्ठलमोग्नोऽपि वासुकिर्वायुभोजनः ।
 

महतां स्थानमाश्रित्य फलं भाग्यानुसा ( रतः ?) ॥ १६७ ॥
 

 
सर्वदा सर्वदोऽसीति मिथ्या त्वं कथ्यसे बुधैः ।
 

नारयो लेभिरे पृष्ठं न वक्षः परयोषितः ॥ १६८ ॥
 

 
त्वयि दातरि पृथ्वीश रणे वितरणेऽपि च ।

पुनर्देहीति वचनं न प्रत्यर्थिनि नार्थिनि ॥ १६९ ॥
 

 
सर्वज्ञ इति लोकोऽयं भवन्तं भाषते मृषा ।

पदमेकं न जानीषे वक्तुं नास्तीति याचके ॥ १७० ॥
 

 
राजन् दौवारिकादेव प्राप्तवानस्मि वारणम् ।

मदवारणमिच्छामि त्वत्तोऽहं पृथिवीपते ॥ १७१ ॥
 

 
साहित्यार्णव कर्णधार करुणापीयूषवारांनिधे
 

विद्वच्ञ्चा तकवारिवाह कमलापर्यङ्कपङ्केरुह ।

त्वां केनोपमिमीमहे त्रिजगति प्राप्तप्रकर्षैः गुणैः
 

तुल्यं ते नरसिंह पार्थिव वयं कुत्रापि न प्राप्नुमः ॥ १७२ ॥
 

 
चन्द्रस्येव तवोदयेन महती श्रीश्चन्द्रिका वर्धतां
 

(द्वे) ष्टारश्शलभीभवन्तु भवतः तीव्रप्रतापानले ।

त्वद्दोर्दण्डमहाभुजङ्गशिरसि स्थेयादनन्ता चिरं
 

दिङ्कारीकुचमण्डले तव यशःपूरो वि (sपि ) हारायताम् ॥ १७३॥