2022-09-25 17:16:51 by sanskrit_hitaay

This page has been fully proofread once and needs a second look.

६६
 
॥ मलयमारुतः ॥
 
द्रविणमापदि भूषणमुत्सवे
 

शरणमाहवे (मात्मभये) निशि दीपिका ।
 

बहुविधाभ्युपकारविधिक्षमो
 

( भवति) कोऽपि भवानिव सन्मणिः ॥ १६० ॥
 

 
कच्चित्सहस्रान्मूर्खाणा मेकमिच्छसि पण्डितम् ।

पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं महत् ॥ १६१ ॥
 

 
क:कः खलोऽपि यदि नाम भवेत्सभायां
 

व्यर्थीकरोति विदुषामखिलं प्रयासम् ।
 

एकाऽपि पूर्णमुदरं मधुरैः पदार्थैः
 

आलोड्य रेचयति हन्त न मक्षिका किम् ॥ १६२ ॥
 

 
महाराज श्रीमन् जगति यशसा ते धवलिते
 
पय:

पयः
पारावारं परमपुरुषोऽयं मृगयते ।
 

कपर्दी कैलासं कुलिशभृदभौमं करिवरं
 

कलानाथं राहुः कमलभवनो हंसमधुना ॥ १६३ ॥
 

 
अपूर्वेयं धनुर्विद्या भवतरिशश्शिक्षिता कुतः ।
 

मार्गणौघस्समायाति गुणो याति दिगन्तरम् ॥ १६४ ॥
 

 
नाविद्यमानं कर्णोऽपि ददातीति मया श्रुतम् ।

अभयेन भयं दत्तमरातिभ्यः कथं त्वया ॥ १६५ ॥
 

 
राजन् कनकवर्षाणि त्वयि सर्वत्र वर्षति ।
 

अभाग्यच्छत्रसञ्छन्ने मयि नायान्ति बिन्दवः ॥ १६६ ॥