This page has not been fully proofread.

६६
 
॥ मलयमारुतः ॥
 
द्रविणमापदि भूषणमुत्सवे
 
शरणमाहवे (मात्मभये) निशि दीपिका ।
 
बहुविधाभ्युपकारविधिक्षमो
 
( भवति) कोऽपि भवानिव सन्मणिः ॥ १६० ॥
 
कच्चित्सहस्रान्मूर्खाणा मेकमिच्छसि पण्डितम् ।
पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं महत् ॥ १६१ ॥
 
एक: खलोऽपि यदि नाम भवेत्सभायां
 
व्यर्थीकरोति विदुषामखिलं प्रयासम् ।
 
एकाऽपि पूर्णमुदरं मधुरैः पदार्थैः
 
आलोड्य रेचयति हन्त न मक्षिका किम् ॥ १६२ ॥
 
महाराज श्रीमन् जगति यशसा ते धवलिते
 
पय: पारावारं परमपुरुषोऽयं मृगयते ।
 
कपर्दी कैलासं कुलिशभृदभौमं करिवरं
 
कलानाथं राहुः कमलभवनो हंसमधुना ॥ १६३ ॥
 
अपूर्वेयं धनुर्विद्या भवतरिशक्षिता कुतः ।
 
मार्गणौघस्समायाति गुणो याति दिगन्तरम् ॥ १६४ ॥
 
नाविद्यमानं कर्णोऽपि ददातीति मया श्रुतम् ।
अभयेन भयं दत्तमरातिभ्यः कथं त्वया ॥ १६५ ॥
 
राजन् कनकवर्षाणि त्वयि सर्वत्र वर्षति ।
 
अभाग्यच्छत्रसञ्छन्ने मयि नायान्ति बिन्दवः ॥ १६६ ॥