2022-09-25 17:05:45 by sanskrit_hitaay

This page has been fully proofread once and needs a second look.

स्वदत्तां परदत्तां वा यो हरेत्तु वसुन्धराम् ।

षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ॥ १५१ ॥
 

 
अधर्मादार्जितं द्रव्यमल्पकालं तु तिष्ठति ।
तु
 

ततस्सपत्नमयते समूलं तेन नश्यति ॥ १५२ ॥
 

 
अनारम्भो मनुष्याणां प्रथमं बुद्धिलक्षणम् ।

आरम्भस्यान्तगमनं द्वितीयं बुद्धिलक्षणम् ॥ १५३ ॥
 

 
सर्वज्ञमज्ञं च वदन्ति लोके सन्तस्तदा (सदा ?) तस्य चरित्रलोकात् ।

न हि स्वयं वक्तुमलं समर्थः को वा चरेत्कुत्सितवृत्तिमार्यः ॥ १५४ ॥
 

 
केचिज्जनाः पण्डितमानिनो हि भवन्ति दुर्युक्तिकथाप्रसङ्गे ।

क्षणार्द्धमप्यूहति सच्चरित्रं श्लाघ्यं विदुस्सत्पुरुषः (घंषं?) स्वबुद्धया ॥ १५५ ॥
 

 
कटीतटानि कुत्रेञ्जेषु सञ्चरन्वातकुञ्जरः ।
 

हे (ए) रण्डतैलसिंहस्य गन्धमाघाघ्राय धावति ॥ १५६ ॥
 

 
हंससम्पदवतंसितं सरः
 

स्वीकृतं सुभगमानिभिर्बकैः ।
 

द्यौ(:(ः) मणि(?) घुमणिभूषित (ता? ) क्षण-

ज्योतिषेति हसितं नु कैतकैः ॥ १५७ ॥
 

 
अध्वा जरा मनुष्याणामनध्वा वाजिनां जरा ।

अमैथुनं जरा स्त्रीणां वस्त्राणामातपो जरा ॥ १५८ ॥
 

 
पिता च ऋणवान् शत्रु: माता च व्यभिचारिणी ।

भार्या रूपवती शत्रुः पुत्रश्शत्रुरपण्डितः ॥ १५९ ॥
 
9