This page has not been fully proofread.

स्वदत्तां परदत्तां वा यो हरेतु वसुन्धराम् ।
षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ॥ १५१ ॥
 
अधर्मादार्जितं द्रव्यमल्पकालं तु तिष्ठति ।
तु
 
ततस्सपत्नमयते समूलं तेन नश्यति ॥ १५२ ॥
 
अनारम्भो मनुष्याणां प्रथमं बुद्धिलक्षणम् ।
आरम्भस्यान्तगमनं द्वितीयं बुद्धिलक्षणम् ॥ १५३ ॥
 
सर्वज्ञमज्ञं च वदन्ति लोके सन्तस्तदा (सदा ?) तस्य चरित्रलोकात् ।
न हि स्वयं वक्तुमलं समर्थः को वा चरेत्कुत्सितवृत्तिमार्यः ॥ १५४ ॥
 
केचिज्जनाः पण्डितमानिनो हि भवन्ति दुर्युक्तिकथाप्रसङ्गे ।
क्षणार्द्धमप्यूहति सच्चरित्रं श्लाघ्यं विदुस्सत्पुरुषः (घं?) खबुद्धया ॥ १५५ ॥
 
कटीतटानि कुत्रेषु सञ्चरन्वातकुञ्जरः ।
 
हे (ए) रण्डतैलसिंहस्य गन्धमाघाय धावति ॥ १५६ ॥
 
हंससम्पदवतंसितं सरः
 
स्वीकृतं सुभगमानिभिर्बकैः ।
 
द्यौ(:) मणि(?) घुमणिभूषित (ता? ) क्षण-
ज्योतिषेति हसितं नु कैतकैः ॥ १५७ ॥
 
अध्वा जरा मनुष्याणामनध्वा वाजिनां जरा ।
अमैथुनं जरा स्त्रीणां वस्त्राणामातपो जरा ॥ १५८ ॥
 
पिता च ऋणवान् शत्रु: माता च व्यभिचारिणी ।
भार्या रूपवती शत्रुः पुत्रश्शत्रुरपण्डितः ॥ १५९ ॥
 
9