2022-09-25 04:55:57 by sanskrit_hitaay

This page has been fully proofread once and needs a second look.

€9
 
॥ मख्यमारुतः ॥
 
चिन्तायाश्च चितायाश्च बिन्दुमात्रं विशेषतः ।
 

चिता दहति निर्जीवं चिन्ता जीवन्तमप्यहो ॥ १४३ ॥
 

 
बृहत्यां च युवत्यां च सर्वाङ्गं मधुरायते ।
 

तयोरपि विशेषेण नालमूलोरुमूलयोः ॥ १४४ ॥
 

 
अर्थेन किं कृपणहस्तमुपागतेन
 

शास्त्रेण किं चलधिया भृशमादृतेन ।
 

रूपेण किं गुणसमूहविवर्जितेन
 

स्नेहेन किं व्यसनकालपराङ्मुखेन ॥ १४५ ॥
 

 
प्राणमेव परित्यज्य मानमेवाभिरक्षतु ।
 

अनित्यम (श्चा)ध्रुवं (व:वः) प्राणं (णो) मानमाचन्द्रतारकम् ॥ १४६ ॥
 

 
कामपि धते सूकररूपी कामपि रहितामिच्छति भूपः ।

केनाकारि (च) मन्मथजननं केन विराजति तरुणीवदनम् ॥ १४७ ॥
 

॥ कुङ्कुमेन ॥
 

 
आत्मबुद्ध्या सुखीभूया गुरुबुद्ध्या विशेषतः ।
 

बहुबुद्ध्या विनाशस्स्यात्स्त्रीबुद्ध्या प्रलयो भवेत् ॥ १४८ ॥
 

 
त्रिभिर्वैर्षैस्त्रिभिर्मासैस्त्रिभि:भिःपक्षैस्त्रिभिर्दिनैः ।
 

अत्युत्कटैः पुण्यपापैरिहैव फलमश्नुते ॥ १४९ ॥
 

 
ब्राह्मणानाम संघातात् सर्पाणामतिनिद्रया ।
 

गजानां बुद्धिदौर्बल्यात् जगज्जीवति निर्भयम् ॥ १५० ॥