This page has not been fully proofread.

€9
 
॥ मख्यमारुतः ॥
 
चिन्तायाश्च चितायाश्च बिन्दुमात्र विशेषतः ।
 
चिता दहति निर्जीवं चिन्ता जीवन्तमप्यहो ॥ १४३ ॥
 
बृहत्यां च युवत्यां च सर्वाङ्गं मधुरायते ।
 
तयोरपि विशेषेण नालमूलोरुमूलयोः ॥ १४४ ॥
 
अर्थेन किं कृपणहस्तमुपागतेन
 
शास्त्रेण किं चलधिया भृशमादृतेन ।
 
रूपेण किं गुणसमूहविवर्जितेन
 
स्नेहेन किं व्यसनकालपराङ्मुखेन ॥ १४५ ॥
 
प्राणमेव परित्यज्य मानमेवाभिरक्षतु ।
 
अनित्यम (श्चा)ध्रुवं (व:) प्राणं (णो) मानमाचन्द्रतारकम् ॥ १४६ ॥
 
कामपि धते सूकररूपी कामपि रहितामिच्छति भूपः ।
केनाकारि (च) मन्मथजननं केन विराजति तरुणीवदनम् ॥ १४७ ॥
 
॥ कुङ्कुमेन ॥
 
आत्मबुद्धया सुखीभूया गुरुबुद्धया विशेषतः ।
 
बहुबुद्ध्या विनाशस्स्यात्स्त्रीबुद्धया प्रलयो भवेत् ॥ १४८ ॥
 
त्रिभिर्वैर्षैस्त्रिभिर्मासैस्त्रिभि:पक्षैस्त्रिभिर्दिनैः ।
 
अत्युत्कटैः पुण्यपापैरिहैव फलमश्नुते ॥ १४९ ॥
 
ब्राह्मणानाम संघातात् सर्पाणामतिनिद्रया ।
 
गजानां बुद्धिदौर्बल्यात् जगज्जीवति निर्भयम् ॥ १५० ॥