2022-09-25 04:47:30 by sanskrit_hitaay

This page has been fully proofread once and needs a second look.

॥ नराभरणम् ॥
उड्डुगणपरिवारो नायकोऽप्योषधीना-

मयममृतशरीरः कान्तियुक्तोऽपि चन्द्रः ।
 

भवति विगतरश्मिर्मण्डलं प्राप्य भानो:
 
नोः
परसदननिविष्टः को लघुत्वं न याति ॥ १३७ ॥
 

 
पापात् निवारयति योजयते हिताय
 

गुह्यं च गृगूहति गुणान्प्रकटीकरोति ।
 

आपद्गतं च न जहाति ददाति काले
 

सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ॥ १३८ ॥
 

 
अब्धी रत्नमधो धत्ते धत्ते च शिरसा तृणम् ।
 

अब्धेरेव हि दोषोऽयं रत्नं रत्नं तृणं ( तृणम् ) ॥ १३९ ॥
 

 
स्वयममृतनिधानो नायकोऽप्योषधीनां
 
१.
 

शतभिषगनुयातश्शम्भुमूर्द्धावतंसः ।
 

परिहरति न चैनं राजयक्ष्मा शशाङ्
 
कं
हतविधिपरिपाकः केन वा लङ्घनीयः ॥ १४० ॥
 

 
दाता न दापयति दापयिता न दत्ते
 

यो दानदापनपरो मधुरं न वक्ति ।
 

तद्दानदापनमनोहरभाषणानि
 

त्रीण्यप्यमूनि खलु सत्पुरुषेषु भान्ति ॥ १४१ ॥
 

 
अनक्षरं यस्य जनस्य भाषणम् अनादरं यस्य प्र (वि ?) भुत्वसेवनम् ।

आलिङ्गनं लम्बपयोधराणां प्रत्यक्षदुःखं त्रयमेव भूमौ ॥ १४२ ॥
 
[^]१
 
---
 
१.
११७ - तमः लोको दृश्यताम् ।
 
६३