This page has not been fully proofread.

॥ नराभरणम् ॥
उड्डुगणपरिवारो नायकोऽप्योषधीना-
मयममृतशरीरः कान्तियुक्तोऽपि चन्द्रः ।
 
भवति विगतरश्मिर्मण्डलं प्राप्य भानो:
 
परसदननिविष्टः को लघुत्वं न याति ॥ १३७ ॥
 
पापात् निवारयति योजयते हिताय
 
गुह्यं च गृहति गुणान्प्रकटीकरोति ।
 
आपद्गतं च न जहाति ददाति काले
 
सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ॥ १३८ ॥
 
अब्धी रत्नमधो धत्ते धत्ते च शिरसा तृणम् ।
 
अब्धेरेव हि दोषोऽयं रत्नं रत्नं तृणं ( तृणम् ) ॥ १३९ ॥
 
स्वयममृतनिधानो नायकोऽप्योषधीनां
 
१.
 
शतभिषगनुयातश्शम्भुमूर्द्धावतंसः ।
 
परिहरति न चैनं राजयक्ष्मा शशाङ्क
 
हतविधिपरिपाकः केन वा लङ्घनीयः ॥ १४० ॥
 
दाता न दापयति दापयिता न दत्ते
 
यो दानदापनपरो मधुरं न वक्ति ।
 
तद्दानदापनमनोहरभाषणानि
 
त्रीण्यप्यमूनि खलु सत्पुरुषेषु भान्ति ॥ १४१ ॥
 
अनक्षरं यस्य जनस्य भाषणम् अनादरं यस्य प्र (वि ?) भुत्वसेवनम् ।
आलिङ्गनं लम्बपयोधराणां प्रत्यक्षदुःखं त्रयमेव भूमौ ॥ १४२ ॥१
 
११७ - तमः लोको दृश्यताम् ।
 
६३