2022-09-25 04:41:33 by sanskrit_hitaay

This page has been fully proofread once and needs a second look.

अहिंसा प्रथमं पुष्पं द्वितीये (पुष्पमि)न्द्रियनिग्रहम्(हः) ।
तृतीयं तु दया पुष्पं तुरीयं दानपुष्पकम् ॥ १३० ॥
 
पञ्चमं शीलपुष्पं च षष्ठं कोपस्य निग्रहः ।
सप्तमं सत्यपुष्पं च अष्टमं विष्णुदर्शनम् ॥ १३१ ॥
 
मात्रा विहीनस्तु रसैर्विनष्टः पित्रा विहीनस्तु कलाविनष्टः ।
भ्रात्रा विहीनस्तु बलैर्विनष्टः दारैर्विहीनस्तु शरीरनष्टः ॥ १३२ ॥
 
सम्पत्सु महतां चित्तं भवत्युत्पलकोमलम् ।
आपत्सु च महाशैलशिलासङ्घातकर्कशम् ॥ १३३ ॥
 
अद्यापि नोज्झति हरः किल कालकूट
कूर्मो बिभर्ति धरणीं खलु पृष्ठभागे ।
अम्भोनिधिर्वहति दुस्सहवाडवाग्नि-
मङ्गीकृतं सुकृतिनः परिपालयन्ति ॥ १३४ ॥
 
बहवः फणिनो लोके भेकभक्षणतत्पराः ।
एक एव हि शेषोऽयं धरणीधरणक्षमः ॥ १३५ ॥
 
चन्द्रः क्षयी प्रकृतिवक्रतनुः कलङ्की
दोषाकरः स्फुरति मित्रविपत्तिकाले ।
हाहा तथापि शिरसा प्रियते हरेण
नैवाश्रितेषु महतां गुणदोषचिन्ता ॥ १३६ ॥