This page has not been fully proofread.

॥ मलयमारुतः ॥
 
अहिंसा प्रथमं पुष्पं द्वितीये (पुष्पमि ) न्द्रियनिग्रहम् (हः) ।
तृतीयं तु दया पुष्पं तुरीयं दानपुष्पकम् ॥ १३ ()
 
पञ्चमं शीलपुष्पं च षष्ठं कोपस्य निग्रहः ।
 
सप्तमं सत्यपुष्पं च अष्टमं विष्णुदर्शनम् ॥ १३१ ॥
 
मात्रा विहीनस्तु रसैर्विनष्टः पित्रा विहीनस्तु कलाविनष्टः ।
 
भ्रात्रा विहीनस्तु बलैर्विनष्टः दारैर्विहीनस्तु शरीरनष्टः ॥ १३२ ॥
 
सम्पत्सु महतां चित्तं भवत्युत्पलकोमलम् ।
 
आपत्सु च महाशैलशिलासङ्घातकर्कशम् ॥ १३३ ॥
 
अद्यापि नोज्झति हरः किल कालकूट
 
कूर्मो बिभर्ति घरणीं खलु पृष्ठभागे ।
 
अम्भोनिधिर्वहति दुस्सहबाडबाग्नि-
मङ्गीकृतं सुकृतिनः परिपालयन्ति ॥ १३४ ॥
 
बहवः फणिनो लोके भेकभक्षणतत्पराः ।
 
एक एव हि शेषोऽयं धरणीधरणक्षमः ॥ १३५ ॥
 
चन्द्रः क्षयी प्रकृतिवक्रतनुः कलङ्की
 
दोषाकरः स्फुरति मित्रविपत्तिकाले ।
 
हाहा तथापि शिरसा प्रियते हरेण
 
नैवाश्रितेषु महतां गुणदोषचिन्ता ॥ १३६ ॥