This page has been fully proofread once and needs a second look.

<page>
<verse lang="sa" text="A" n="121">
चोरद्रव्यविभागं च दूतद्रव्यं सुभाषितम् ।

उत्क्रोशं (त्कोचं) प्रतिदानं च सद्यो गृह्णाति बुद्धिमान् ॥ १२१ ॥
 
</verse>
<verse lang="sa" text="A" n="122">
सुभाषितपरिभ्रष्टं ताम्बूलरसवर्जितम् ।

यन्मुखं वेदविभ्रष्टं तन्मुखं बिलमुच्यते ॥ १२२ ॥
 
</verse>
<verse lang="sa" text="A" n="123">
परोपकृतिशीलानामपि(वि)दूरे हि सम्पदः ।

मथ्नन् सुरार्थमम्भोधिं श्रियं लेभे परः पुमान् ॥ १२३ ॥
 
</verse>
<verse lang="sa" text="A" n="124">
वेदविद्याव्रतस्नाते शिष्टे च गृहमागते ।

नन्दन्त्योषधयस्सर्वा यास्यामः परमां गतिम् ॥ १२४ ॥
 
</verse>
<verse lang="sa" text="A" n="125">
नष्टशौचे व्रतभ्रष्टे विप्रे वेदविवर्जिते ।

रोदित्यन्नं हि दातव्यं किं मया दुष्कृतं कृतम् ॥ १२५ ॥
 
</verse>
<verse lang="sa" text="A" n="126">
कदाचित्कवचं भेद्यं नाराचेन शरेण वा ।

अपि वर्षशताघाते ब्राह्मणाशीर्न भिद्यते ॥ १२६ ॥
 
</verse>
<verse lang="sa" text="A" n="127">
तैलाभ्यङ्गं द्विजोच्छिष्टं विप्राणामङ्गमर्दनम् ।

गवां कण्डूयमानेन (नं चैव?) कोटियज्ञफलं लभेत् (लप्रदम्?) ॥ १२७ ॥
 
</verse>
<verse lang="sa" text="A" n="128">
विषस्य तैलस्य न किञ्चिदन्तरं

मृतस्य सुप्तस्य न किञ्चिदन्तरम् ।

ऋणस्य दासस्य न किञ्चिदन्तरं

द्विजस्य दैवस्य न किञ्चिदन्तरम् ॥ १२८ ॥
 
</verse>
<verse lang="sa" text="A" n="129">
पङ्कजं च पलाशं च नद्यां च करवीरकम् ।

चम्पकं पाटली चैव नीलोत्पलमिति स्मृतम् ॥ १२९ ॥</verse>
</page>