This page has not been fully proofread.

॥ नराभरणम् ॥
 
चोरद्रव्यविभागं च दूतद्रव्यं सुभाषितम् ।
 
उत्क्रोशं (त्कोचं) प्रतिदानं च सद्यो गृह्णाति बुद्धिमान् ॥ १२१ ॥
 
सुभाषितपरिभ्रष्टं ताम्बूलरसवर्जितम् ।
 
यन्मुखं वेदविभ्रष्टं तन्मुखं बिलमुच्यते ॥ १२२ ॥
 
परोपकृतिशीला नामपि (वि) दूरे हि सम्पदः ।
 
मअन् सुरार्थमम्भोधिं श्रियं लेभे परः पुमान् ॥ १२३ ॥
 
वेदविद्यावतस्नाते शिष्टे च गृहमागते ।
 
नन्दन्त्योषधयस्सर्वा यास्यामः परमां गतिम् ॥ १२४ ॥
 


 
नष्टशौचे व्रतभ्रष्टे विप्रे वेदविवर्जिते ।
 
रोदित्यन्नं हि दातव्यं किं मया दुष्कृतं कृतम् ॥ १२५ ॥
 
कदाचित्कवचं भेद्यं नाराचेन शरेण वा ।
 
अपि वर्षशताघाते ब्राह्मणाशीन भिद्यते ॥ १२६ ॥
 
तैलाभ्यङ्गं द्विजोच्छिष्टं विप्राणामङ्गमर्दनम् ।
 
गवां कण्डूयमानेन (नं चैव?) कोटियज्ञफलं लभेत् (लप्रदम् ?) ॥ १२७ ॥
 
विषस्य तैलस्य न किञ्चिदन्तरं
 
मृतस्य सुप्तस्य न किञ्चिदन्तरम् ।
 
ऋणस्य दासस्य न किञ्चिदन्तरं
 
द्विजस्य दैवस्य न किञ्चिदन्तरम् ॥ १२८ ॥
 
६१
 
पङ्कजं च पलाशं च नद्यां च करवीरकम् ।
 
चम्पकं पाटली चैव नीलोत्पलमिति स्मृतम् ॥ १२९ ॥