This page has not been fully proofread.

६०
 
॥ मलयमारुतः ॥
 
आयं पश्यन् व्ययं कुर्वन् (र्यात् ?) आयादल्पतरं व्ययम् ।
आयाभावे व्ययं कुर्वन् कुबेरोऽपि विनश्यति ॥ ११३ ॥
 
वरं दरिद्रोऽपि विचक्षणो जनो न चार्थवान् विश्रुतजातिवर्जितः ।
सलोचन: क्षीणपथो (पटो ?) वि (ऽपि ? ) शोभते न नेत्रहीनः
शकटै (कटकै?) रलङ्कृतः ॥ ११४ ॥
 
सहोक्तिप्रत्युक्तिस्सरससहितैस्साक्षरजनैः
 
प्रभोर्भावज्ञस्य प्रभवितुरुदारस्य भजनम् ।
 
परीरम्भः कुम्भप्रतिभटकुचानां मृगदृशा-
मसारे संसारे जगति खलु सारत्रयमिदम् ॥ ११५ ॥
 
इह भोग यशस्त्रीति (: प्रीतिं ?) सभासु बहुमान्यताम् ।
दद्यात्परत्र सुगतिं विद्याधनमनुत्तमम् ॥ ११६ ॥
 
अनक्षरज्ञेन जनेन सख्यं संभाषणं दुष्प्रभुसेवनं च ।
आलिङ्गनं लम्बपयोधराणां प्रत्यक्षदुःखं त्रयमेव भूमौ ॥ ११७ ॥
 
न चोरहार्यं न च राजहार्य
 
विदेशयाने न च भारकार्यम् ।
व्यये कृते नित्यमुपैति नित्यम् (वृद्धिं)
 
विद्याधनं सर्वधनप्रधानम् ॥ ११८ ॥
 
अनन्तशास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्नाः ।
यत्सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्बुमिश्रम् ॥ ११९ ॥
 
सिद्धमन्नं फलं पक्कं नारी प्रथमयौवनम् ।
 
सुभाषितं च ताम्बूलं सद्यो गृह्णाति बुद्धिमान् ॥ १२० ॥