This page has not been fully proofread.

५८
 
॥ मलयमारुतः ॥
 
दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् ।
सत्यपूतां वदेद्वाण श्रद्धापूतं धनं दिशेत् ॥ ९४ ॥
 
अधोमुखस्वयं रन्ध्री रन्ध्रान्वेषणतत्परः ।
लालनाद्वृद्धिमाप्नोति शिश्नप्रायो हि दुर्जनः ॥ ९५ ॥
 
तित्तिरिश्च वराहश्च महिषः कुञ्जरस्तथा ।
सेनापत्येन (-पतिश्च ?) राजानं (- जा च?) षडेते
स्वर्ग (स्वैर ?) गामिनः ॥ ९६ ॥
 
सम्मुखात्सूर्य: सुप्रीतः भाषणेन सरस्वती ।
 
खागतेनाग्भिः सुप्रीतः आसनेन शतक्रतुः ॥ ९७ ॥
 
दशवत्ससमा धेनुः दशधेनुसमो वृषः ।
 
दशोक्षकसमो दन्ती दशदन्तिशत (सम: ) क्रतुः ॥ ९८ ॥
 
दशकतुसमा कन्या दशकन्यासमा भुवः ।
भूमेर्दानात्परं नास्ति विद्यादानं ततोऽधिकम् ॥ ९९ ॥
 
अल्पप्रभोस्तु सेवायां भुक्तिमात्रं प्रयोजनम् ।
 
अनुग्रहम ( ग्रहे त्व ?) जामूल्यं निग्रहं ( हे ? ) प्राणसङ्कटम् ॥ १०० ॥
 
जलूकं कृत्त (रक्त ?) साध्यं च ज्वरसाध्यं च लङ्घनम् ।
वमनं कफसाध्यं च पित्तसाध्यं विरेचनम् ॥ १०१॥
 
उत्साहसम्पन्नमदीनसत्त्वं क्रियाविधिज्ञं व्यवसायिनं च ।
शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीस्खयं वाञ्छति वासहतोः ॥ १०२ ॥
 
सर्ववाद्यमयी घण्टा सर्वद्रव्यमयं जलम् ।
 
सर्वपुष्पमयी दूर्वा सर्वदेवमयो हरिः ॥ १०३ ॥