2022-09-18 04:43:37 by sanskrit_hitaay

This page has been fully proofread once and needs a second look.

॥ मलयमारुतः ॥
 
वैद्यं पापरतं नटं कुनृपतिं स्वाध्यायहीनं द्विजं
 

युद्धे कापुरुषं हथंयं गतरयं क्रुद्धं परिव्राजकम् ।
 

राजानं च कुमन्त्रिभिः परिवृतं देशं च सोपप्लवं
 

भार्या यौवनगर्वितां पररतां मुञ्चन्ति शीघ्रं बुधाः ॥ १८ ॥
 

 
कृपादीनं त्यजेदर्थं निर्वेदं ब्राह्मणं त्यजेत् ।
 

त्यजेत्क्रुद्धमुखीं भार्यां ज्ञानहीनं गुरुं त्यजेत् ॥ ७९ ॥
 

 
मुक्ताफलैः किं वनमर्कटस्य मृष्टान्नदानेन तु गर्दभस्य ।
 

अन्धस्य दीपाद्बधिरस्य गीतात् मूर्खस्य किं धर्मकथाप्रसङ्गैः ॥ ८० ॥
 

 
सर्वौषधीनामुदकं प्रधानं सर्वे ( षण्णां?) रसानां लवणं प्रधानम् ।
 

सर्वेन्द्रियाणां नयनं प्रधानं भवेन्नदीनामुदकं प्रधानम् ॥ ८१ ॥
 

 
आशाया दासा ये दासास्ते सर्वलोकस्य ।
 

आशा दासी येषां तेषां दासायते लोकः ॥ ८२ ॥
 

 
महत्सन्दर्शने प्राप्ते समस्तनियमैरलम् ।
 

तालवृन्तेन किं कार्य पार्श्वस्थे मलयानिले ॥ ८३ ॥
 

 
वक्रापि पक्ङ्किलभवापि दुरासदापि
 

व्यालाश्रितापि विफलापि सकण्टकापि ।
 

गन्धेन बन्धुरसि केतकि सर्वजन्तोः
 

एको गुणः खलु निहन्ति समस्तदोषान् ॥ ८४ ॥