नराभरणम् /21
This page has been fully proofread once and needs a second look.
<page>
<verse lang="sa" text="A" n="71">हंसो विभाति सरसीरुहबृन्दमध्ये
सिंहो विभाति हिमवगिरिगह्वरेषु ।
जात्यो विभाति तुरगो रणरङ्गमध्ये
विद्वान् विभाति पुरुषेषु विचक्षणेषु ॥ ७१ ॥
</verse>
<verse lang="sa" text="A" n="72">किं केतकी फलति किं पनसस्य पुष्पं
किं नागवल्लयपि तु पुष्पफलैरुपेता ।
कस्यापि कोऽप्यतिशयोऽस्ति न ( स?) येन सद्भिः
सङ्ग्रा(गृ?)ह्यते जगति याति यतः प्रतीतिः (तिम्?) ॥ ७२ ॥
</verse>
<verse lang="sa" text="A" n="73">विद्वानेव विजानाति विद्वज्जनपरिश्रमम् ।
न हि वन्ध्या विजानाति गुर्वी प्रसववेदनाम् ॥ ७३ ॥
</verse>
<verse lang="sa" text="A" n="74">अल्पीयसामेव हि जन्मभूमेः
त्यागप्रमादो विदुषां न चास्ति ।
अब्धेरुपेता मणयो भजन्ते
राज्ञां शिरः काकमुखानि भेकाः ॥ ७४ ॥
</verse>
<verse lang="sa" text="A" n="75">अन्तस्सन्तोषचित्तानां संपदस्ति पदे पदे ।
अन्तर्मलिनचित्तानां सुखं स्वप्नेऽपि दुर्लभम् ॥ ७५ ॥
</verse>
<verse lang="sa" text="A" n="76">नक्रस्स्वस्थानमासाद्य गजेन्द्रमपि कर्षति ।
स एव प्रच्युतस्स्थानात् शुनापि परिभूयते ॥ ७६ ॥
</verse>
<verse lang="sa" text="A" n="77">पुत्रं च धर्मविमुखं भार्यां चाप्रियवादिनीम् ।
अब्रह्मण्यं च राजन्यं त्यजेत्सद्योऽन्यथा पतेत् ॥ ७७ ॥</verse>
</page>