This page has not been fully proofread.

॥ मलयमारुतः ॥
 
अन्यत्र भीष्मानाङ्गेयात् अन्यत्र च हनूमतः ।.
हरिणीखुरमात्रेण चर्मणा मोहितं जगत् ॥ ६२ ॥
 
उत्कृष्टमध्यमनिकृष्टजनेषु मैत्री यद्वच्छिलासु सिकतासु जलेषु रेखा ।
वैरं क्रमादधममध्यमसज्जनेषु यद्वच्छिलासु सिकतासु जलेषु रेखा ॥ ६३ ॥
 
विश्वामित्राश्वपश्वादीन् (?) पारयत्यप्सु कर्दमे ।
वार्धक्ये तमसि श्रान्ते यष्टिरिष्टेव सुप्रजाः ॥ ६४ ॥
 
पापिनां पापगणनां यः करोति नराधमः ।
 
सत्यं चेदर्घमाप्नोति मिथ्या चेद् द्विगुणं भवेत् ॥ ६५ ॥
 
अन्नदाहे हरेन्मांसमम्बुदाहे च शोणितम् ।
 
कामदाहे हरेन्नेत्रमनिद्रा रोगकारिणी ॥ ६६ ॥
 
तलोदरीणां तरुणीमणीनां
 
तटाकजं तालपयोधराणाम् ।
ताद्र्प्यमाप्तुं तरुणैः (तरणौ ?) तदास्यं (स्यैः?)
तपः परं तामरसं तनोति ॥ ६७ ॥
 
दिव्यं चूतफलं प्राप्य गर्वं नायाति कोकिल: ।
 
पीत्वा कर्दमपानीयं भेको बकबकायते ॥ ६८ ॥
 
वित्तेन हीनं पुरुषं त्यजन्ति पुत्राश्च दाराश्च सहोदराश्च ।
तं वित्त पुनरेव यान्ति तस्मात्तु वित्तं पुरुषस्य बन्धुः ॥ ६९ ॥
 
वाङ्माधुर्य्यात्सर्वलोकप्रियत्वं वाक्पारुण्यात्सर्वलोकापकारी ।
किंवा लोके कोकिलेनोपनीतं को वा लोके रासभेनापराधः ॥ ७० ॥