2022-09-17 06:37:26 by sanskrit_hitaay

This page has been fully proofread once and needs a second look.

॥ नराभरणम् ॥
 
सदा वक्रस्सदा क्रूरः सदा पूजामपेक्षते ।
 

कन्याराशिगतो नित्यं जामाता दशमो ग्रहः ॥ ५४ ॥
 

 
अल्पाश्रयं समासाद्य महानप्यल्पको भवेत् ।

गजेन्द्रः पर्वताकारो यथा दर्पणमाश्रितः ॥ ५५ ॥
 

 
असहायस्समर्थोऽपि तेजस्वी किं करिष्यति ।

रामस्सुग्रीवसाहाय्यात् लङ्कां निर्दग्धवान्पुरा ॥ ५६ ॥
 

 
अस्त्यद्यापि चतुस्समुद्रपरिखापर्यन्तमुर्वीतलं
 

सन्त्यन्येऽपि विदग्धकेलिरसिकाः केचित्क्वचिद्भूभुजः।

एकस्तत्र निरादरो यदि भवेत् अन्यो भवेत्सादरः
 

वाग्देवी वदनाम्बुजे यदि भवेत् को नाम दीनो जनः ॥ ५७ ॥
 

 
पात्रम्म्यामपात्रीकुरुते दहति गुणं स्नेहमाशु नाशयति ।

अमले मलं नियच्छति दीपज्वालेव खलजने मैत्री ॥ ५८ ॥
 

 
चिन्तासमं नास्ति शरीरशोषणं क्षुधासमं नास्ति शरीरपीडनम् ।

मातुस्समं नास्ति शरीरपोषणं विद्यासमं नास्ति शरीरभूषणम् ॥ ५९ ॥
 

 
वितरति फणिलोकं विद्रुतानां नृपाणा-

ममरभुवनलक्ष्मीमाहवे सम्मुखानाम् ।
 

अपि च पदनतानामाधिपत्यं जगत्यां
 
५२
 

किमिह वितरणं ते कीर्तयामि क्षितीन्द्र ॥ ६० ॥
 

 
महतामवलोकनं परं क्षणमात्रेण फलं प्रदास्यति ।
 

नहुषो विजहौ भुजङ्गतां यदुसूनोरवलोकनेन यत् ॥ ६१ ॥