नराभरणम् /18
This page has been fully proofread twice.
<page>
<verse lang="sa"
<verse text="A" n="45" lang="sa">उत्तमैस्स्वीकृतो नीचः नीच एव न चोत्तमः ।
भैरवाधिष्ठितश्श्वा तु कदाचिन्न तु केसरी ॥ ४५ ॥</verse>
<verse lang="sa"
<verse text="A" n="46" lang="sa">असतां धर्मबुद्धिश्चेत् सतां सन्तापकारणम् ।
उपोषितस्य व्याघ्रस्य पारणं पशुमारणम् ॥ ४६॥</verse>
<verse lang="sa"
<verse text="A" n="47" lang="sa">यथा गजाः परिश्रान्ताः तरुच्छायां समाश्रिताः ।
विश्राम्य तद्द्रुमं घ्नन्ति तथा नीचसमागमः ॥ ४७ ॥</verse>
<verse lang="sa"
<verse text="A" n="48" lang="sa">लघुना सह संवासो लाघवस्यैव कारणम् ।
शुष्कालाबोश्च संसर्गात् लोहमुत्प्लवतेऽम्भसि ॥ ४८ ॥</verse>
<verse lang="sa"
<verse text="A" n="49" lang="sa">अहमिहैव वसन्नपि तावकः त्वमपि तत्र वसन्नपि मामकः ।
न तनुसङ्गम एव (सु)सङ्गमः हृदयसङ्गम एव (सु)सङ्गमः ॥ ४९ ॥</verse>
<verse lang="sa"
<verse text="A" n="50" lang="sa">दूरस्थोऽपि न दूरस्थो यो यस्य हृदये वसेत् ।
यो यस्य हृदये नास्ति समीपस्थोऽपि दूरतः ॥ ५० ॥</verse>
<verse lang="sa"
<verse text="A" n="51" lang="sa">मातेव रक्षति पितेव हिते नियुङ्क्ते
कान्तेव चाभिरमयत्यपनीय खेदम् ।
कीर्तिं च दिक्षु विमलां वितनोति लक्ष्मीं
किं किं न साधयति कल्पलतेव विद्या ॥ ५१ ॥</verse>
<verse lang="sa"
<verse text="A" n="52" lang="sa">संभ्रमस्स्नेहमाख्याति वपुराख्याति भोजनम् ।
आचारः कुलमाख्याति देशमाख्याति भाषणम् ॥ ५२ ॥</verse>
<verse lang="sa"
<verse text="A" n="53" lang="sa">विद्याहीनस्य विप्रस्य विडम्बाय गुणान्तरम् ।
परिधानविहीनस्य परिकर्मान्तरं तथा ॥ ५३ ॥</verse>
</page>