2022-09-16 18:00:13 by sanskrit_hitaay

This page has been fully proofread once and needs a second look.

५२
 
॥ मलयमारुतः ॥
 
उत्तमैस्स्वीकृतो नीचः नीच एव न चोत्तमः ।

भैरवाधिष्ठितश्श्वा तु कदाचिन्न तु केसरी ॥ ४५ ॥
 

 
असतां धर्मबुद्धिश्चेत् सतां सन्तापकारणम् ।

उपोषितस्य व्याघ्रस्य पारणं पशुमारणम् ॥ ४६॥

 
यथा गजाः परिश्रान्ताः तरुच्छायां समाश्रिताः ।
 
घ्न
 

विश्राम्य तङ्कुम द्द्रुमं घ्नन्ति तथा नीचसमागमः ॥ ४७ ॥

 
लघुना सह संवासो लाघवस्यैव कारणम् ।

शुष्कालाबोश्च संसर्गात् लोहमुत्प्लवतेऽम्भसि ॥ ४८ ॥
 

 
अहमिहैव वसन्नपि तावकः त्वमपि तत्र वसन्नपि मामकः ।

न तनुसङ्गम एव (सु) सङ्गम:मः हृदयसङ्गम एव (सु) सङ्गमः ॥ ४९ ॥
 

 
दूरस्थोऽपि न दूरस्थो यो यस्य हृदये वसेत् ।
 

यो यस्य हृदये नास्ति समीपस्थोऽपि दूरतः ॥ ५० ॥
 

 
मातेव रक्षति पितेव हिते नियुङ्क्ते
 

कान्तेव चाभिरमयत्यपनीय खेदम् ।
 

कीर्तिं च दिक्षु विमलां वितनोति लक्ष्मीं
 

किं किं न साधयति कल्पलतेव विद्या ॥ ५१ ॥
 

 
संभ्रमस्नेहमाख्याति वपुराख्याति भोजनम् ।
 

आचारः कुलमाख्याति देशमाख्याति भाषणम् ॥ ५२ ॥
 

 
विद्याहीनस्य विप्रस्य विडम्बाय गुणान्तरम् ।

परिधानविहीनस्य परिकर्मान्तरं तथा ॥ ५३ ॥