नराभरणम् /16
This page has been fully proofread twice.
<page>
<verse lang="sa"
<verse text="A" n="25" lang="sa">इयमेव हि सत्त्वशालिनां महतां कापि कठोरचित्तता ।
उपकृत्य भवन्ति दूरतः परतः प्रत्युपकारशङ्कया ॥ २५ ॥</verse>
<verse lang="sa"
<verse text="A" n="26" lang="sa">उदये सविता ताम्रः ताम्र एवास्तमेति च ।
सम्पद्विपदवस्थासु महतामेकरूपता ॥ २६ ॥</verse>
<verse lang="sa"
<verse text="A" n="27" lang="sa">किं वात्र चित्रं यत्सन्तः परानुग्रहतत्पराः ।
न हि स्वदेहशैत्याय जायते चन्दनद्रुमः ॥ २७ ॥</verse>
<verse lang="sa"
<verse text="A" n="28" lang="sa">साधोः परुषवाक्येन मनो नो याति विक्रियाम् ।
न हि तापयितुं शक्यः सागराम्भस्तृणोल्कया ॥ २८ ॥</verse>
<verse lang="sa"
<verse text="A" n="29" lang="sa">प्रसादो यस्य वदने कृपा यस्यावलोकने ।
वचने यस्य माधुर्यं स साक्षात्पुरुषोत्तमः ॥ २९ ॥</verse>
<verse lang="sa"
<verse text="A" n="30" lang="sa">कुपितोऽपि गुणायैव गुणवान्भवति ध्रुवम् ।
स्वभावमधुरं क्षीरं मथितं हि रसोत्तरम् ॥ ३० ॥</verse>
<verse lang="sa"
<verse text="A" n="31" lang="sa">गुणाः कुर्वन्ति दूतत्वं सदुक्त्या सारवेदिनः ।
केतकीगन्धमाघ्राय स्वयमायान्ति षट्पदाः ॥ ३१ ॥</verse>
<verse lang="sa"
<verse text="A" n="32" lang="sa">सन्त एव सतां नित्यमापत्तरण हेतवः ।
गजानां पङ्कलग्नानां गजा एव धुरन्धराः ॥ ३२ ॥</verse>
<verse lang="sa"
<verse text="A" n="33" lang="sa">कराद्गलितखाद्यस्य का हानिः करिणो भवेत् ।
पिपीलिका तु तेनैव बिभर्ति स्वकुटुम्बकम् ॥ ३३ ॥</verse>
<verse lang="sa"
<verse text="A" n="34" lang="sa">सत्सु कार्यवतां पुंसामलमेवाग्रतस्स्थितिः ।
वाग्वृत्तिरधिका सा चेत्करोत्युभयलाघवम् ॥ ३४ ॥</verse>
</page>