This page has been fully proofread once and needs a second look.

<page>
<verse lang="sa" text="A" n="25">
इयमेव हि सत्त्वशालि‍नां महतां कापि कठोरचित्तता ।

उपकृत्य भवन्ति दूरतः परतः प्रत्युपकारशङ्कया ॥ २५ ॥
 
</verse>
<verse lang="sa" text="A" n="26">
उदये सविता ताम्रः ताम्र एवास्तमेति च ।

सम्पद्विपदवस्थासु महतामेकरूपता ॥ २६ ॥
 
</verse>
<verse lang="sa" text="A" n="27">
किं वात्र चित्रं यत्सन्तः परानुग्रहतत्पराः ।

न हि स्वदेहशैत्याय जायते चन्दनद्रुमः ॥ २७ ॥
 
</verse>
<verse lang="sa" text="A" n="28">
साधोः परुषवाक्येन मनो नो याति विक्रियाम् ।

न हि तापयितुं शक्यः सागराम्भस्तृणोल्कया ॥ २८ ॥
 
</verse>
<verse lang="sa" text="A" n="29">
प्रसादो यस्य वदने कृपा यस्यावलोकने ।

वचने यस्य माधुर्यं स साक्षात्पुरुषोत्तमः ॥ २९ ॥
 
</verse>
<verse lang="sa" text="A" n="30">
कुपितोऽपि गुणायैव गुणवान्भवति ध्रुवम् ।

स्वभावमधुरं क्षीरं मथितं हि रसोत्तरम् ॥ ३० ॥
 
</verse>
<verse lang="sa" text="A" n="31">
गुणाः कुर्वन्ति दूतत्वं सदुक्त्या सारवेदिनः ।

केतकीगन्धमाघ्राय स्वयमायान्ति षट्पदाः ॥ ३१ ॥
 
</verse>
<verse lang="sa" text="A" n="32">
सन्त एव सतां नित्यमापत्तरण हेतवः ।

गजानां पङ्कलग्नानां गजा एव धुरन्धराः ॥ ३२ ॥
 
</verse>
<verse lang="sa" text="A" n="33">
कराद्गलितखाद्यस्य का हानिः करिणो भवेत् ।

पिपीलिका तु तेनैव बिभर्ति स्वकुटुम्बकम् ॥ ३३ ॥
 
</verse>
<verse lang="sa" text="A" n="34">
सत्सु कार्यवतां पुंसामलमेवाग्रतस्स्थितिः ।

वाग्वृत्तिरधिका सा चेत्करोत्युभयलाघवम् ॥ ३४ ॥</verse>
</page>