This page has not been fully proofread.

५०
 
॥ मलयमारुतः ॥
 
इयमेव हि सत्त्वशालिनां महतां कापि कठोरचित्तता ।
उपकृत्य भवन्ति दूरतः परतः प्रत्युपकारशङ्कया ॥ २५ ॥
 
उदये सविता ताम्रः ताम्र एवास्तमेति च ।
सम्पद्विपदवस्थासु महतामेकरूपता ॥ २६ ॥
 
किं वात्र चित्रं यत्सन्तः परानुग्रहतत्पराः ।
न हि स्वदेहशैत्याय जायते चन्द्रुमः ॥ २७ ॥
 
साधो: परुषवाक्येन मनो नो याति विक्रियाम् ।
न हि तापयितुं शक्यः सागराम्भस्तृणोरकया ॥ २८ ॥
प्रसादो यस्य वदने कृपा यस्यावलोकने ।
वचने यस्य माधुर्यं स साक्षात्पुरुषोत्तमः ॥ २९ ॥
कुपितोऽपि गुणायैव गुणवान्भवति ध्रुवम् ।
स्वभावमधुरं क्षीरं मथितं हि रसोत्तरम् ॥ ३० ॥
 
गुणाः कुर्वन्ति दूतत्वं सदुक्त्या सारवेदिनः ।
 
केतकीगन्धमाघ्राय स्वयमायान्ति षट्पदाः ॥ ३१ ॥
 
सन्त एव सतां नित्यमापत्तरण हेतवः ।
 
गजानां पङ्कलग्नानां गजा एव धुरन्धराः ॥ ३२ ॥
 
कराद्गलितखाद्यस्य का हानि: करिणो भवेत् ।
पिपीलिका तु तेनैव बिभर्ति खकुटुम्बकम् ॥ ३३ ॥
 
सत्सु कार्यवतां पुंसामलमेवाग्रतस्स्थितिः ।
वाग्वृत्तिरधिका सा चेत्करोत्युभयलाघवम् ॥ ३४ ॥