This page has not been fully proofread.

7
 
॥ नराभरणम् ॥
 
यस्तु पर्यटते देशान् यस्तु सेवेत पण्डितान् ।
तस्य विस्तारिता बुद्धिः तैलबिन्दुरिवासि ॥ १६ ॥
 
स्नानमूलमिदं कर्म कृषिमूलमिदं धनम् ।
आज्ञामूलमिदं राज्यं पत्नीमूलमिदं गृहम् ॥ १७ ॥
यत्र विद्यागमो नास्ति यत्र नास्ति धनागमः ।
यत्र देहसुखं नास्ति न तत्र निमिषं वसेत् ॥ १८ ॥
लक्ष्मीश्चेन्न सरस्वती तदुभव यद्यस्ति नोदारता
 
तत्रापि त्रितयं घटेत कतिचित्पुण्यैरगण्यैरपि ।
सौजन्यं न विजृम्भते तदपि चेन्नास्त्येव धर्मे मतिः
 
तत्सर्वं जगदीश्वरस्य कृपया त्वय्येव सन्दृश्यते ॥ १९ ॥
 
सरस्वती स्थिता वक्त्रे लक्ष्मीर्वक्षसि ते स्थिता ।
कीर्ति: किं कुपिता राजन् येन देशान्तरं गता ॥ २० ॥
 
श्रुत्वा च दूरे भवदीयकीर्ति कर्णौ च तुष्टौ न तु चक्षुषी मे ।
तयोर्विवादं परिहर्तुकामः समागतोऽहं भवदीक्षणाय ॥ २१ ॥
 
यो न ददाति न भुङ्क्ते विभवे सति तस्य तद्रव्यम् ।
तृणकृतकृत्रिमपुरुषो [ऽयं] रक्षति सस्यमिव परस्यार्थे ॥ २२ ॥
 
चकोरा इव शीतांशुं चातका इव तोयदम् ।
चञ्चरीका इवाम्भोजं द्रष्टुं त्वामुत्सुका वयम् ॥ २३ ॥
 
को वा जन्मान्तरे पूर्व धर्मस्सम्पादितो मया ।
यत्सतां दर्शनं प्राप्तं सर्वस्फीतफलप्रदम् ॥ २४ ॥