2022-09-14 14:38:42 by sanskrit_hitaay

This page has been fully proofread once and needs a second look.

॥ नराभरणम्" ॥
 
* ॥
 
स्वहस्ते नाचरेद्दानं परहस्तेन मर्दनम् ।
 

भार्या हस्तेन ताम्बूलं मातृहस्तेन भोजनम् ॥ १ ॥
 

 
नरस्याभरणं रूपं रूपस्याभरणं गुण: ।
णः ।
गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा ॥ २ ॥
 

 
न्यायो राजविभूषणं वितरणं पाणिद्वयोभूषणं
 
र्भूषणं
लज्जा स्त्रीजनभूषणं सरसता सख्युस्सदा भूषणम् ।
 

विद्या विप्रविभूषणं हरिकथा श्रोत्रद्वयोभूषणं
 
र्भूषणं
सत्पुत्र:रः कुलभूषणं सुकविता वाचस्सदा भूषणम् ॥ ३ ॥
 

 
नभोभूषा पूषा कमलवनभूषा मधुकरो
 

वचोभूषा सत्यं वरयुवतिभूषा सुगुणता ।
 

मनोभूषा मैत्री मधुसमयभूषा मध्नुधुभृतः
 

सतां भूषा शान्तिः सकलजनभूषा वितरणम् ॥ ४ ॥
 

 
असम्पन्नः कथं बन्धुरसहिष्णुः कथं प्रभुः ।
 

अनात्मवित्कथं विद्वान् असन्तुष्टः कथं सुखी ॥ ५ ॥
 

 
शाठ्येन मित्रं कलुषेण धर्मं परावमानेन समृद्धिभावम् ।
 

सुखेन विद्यां परुषेण नारीरीं वाञ्छन्ति ये नूनमपण्डितास्ते ॥ ६ ॥
 

 
दरिद्रस्य द्विभार्यत्वं पथि क्षेत्रं द्विधा कृषिः ।
 

प्रातिभाव्यं च साक्षित्वं पञ्चानर्थास्स्वयंकृताः ॥ ७ ॥
 
*
 

 
 
* मद्रपुरी- राजकीयकोशागारस्थमातृकातः । इदमपि नानाकविकृतिभ्यः संकलितम् ।