नराभरणम् /13
This page has not been fully proofread.
॥ नराभरणम्" ॥
स्वहस्ते नाचरेद्दानं परहस्तेन मर्दनम् ।
भार्या हस्तेन ताम्बूलं मातृहस्तेन भोजनम् ॥ १ ॥
नरस्याभरणं रूपं रूपस्याभरणं गुण: ।
गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा ॥ २ ॥
न्यायो राजविभूषणं वितरणं पाणिद्वयोभूषणं
लज्जा स्त्रीजनभूषणं सरसता सख्युस्सदा भूषणम् ।
विद्या विप्रविभूषणं हरिकथा श्रोत्रद्वयोभूषणं
सत्पुत्र: कुलभूषणं सुकविता वाचस्सदा भूषणम् ॥ ३ ॥
नभोभूषा पूषा कमलवनभूषा मधुकरो
वचोभूषा सत्यं वरयुवतिभूषा सुगुणता ।
मनोभूषा मैत्री मधुसमयभूषा मध्नुभृतः
सतां भूषा शान्तिः सकलजनभूषा वितरणम् ॥ ४ ॥
असम्पन्नः कथं बन्धुरसहिष्णुः कथं प्रभुः ।
अनात्मवित्कथं विद्वान् असन्तुष्टः कथं सुखी ॥ ५ ॥
शाठयेन मित्रं कलुषेण धर्म परावमानेन समृद्धिभावम् ।
सुखेन विद्यां परुषेण नारी वाञ्छन्ति ये नूनमपण्डितास्ते ॥ ६ ॥
दरिद्रस्य द्विभार्यत्वं पथि क्षेत्रं द्विधा कृषिः ।
प्रातिभाव्यं च साक्षित्वं पञ्चानर्थास्स्वयंकृताः ॥ ७ ॥
*
* मद्रपुरी- राजकीयकोशागारस्थमातृकातः । इदमपि नानाकविकृतिभ्यः संकलितम् ।