2026-01-17 12:41:24 by akprasad
This page has been fully proofread twice.
<page>
<verse lang="sa">मूत्रेणेन्द्रियमस्रवत् तदपिबद् गेहं प्रविष्टे मुनौ
शीघ्रं गर्भमधत्त सा च करिणी सूते स्म पुत्रं मुखात् ॥ १७ ॥
</verse>
<verse lang="sa">दत्वा तं मुनये मुदा निजसुतं सन्त्यज्य सा हस्तिनी-
भावं चाथ दिवं जगाम सहसा शापाद् विमुक्ता सुखम् ।
प्रीतोऽसावथ सामगायनमुनिस्तज्जातकर्मादिकं
कृत्वाख्यामपि पालकाप्य इति दिव्योक्त्या चकारास्य च ॥ १८ ॥
</verse>
<verse lang="sa">सोऽक्रीडच्च गजैः करेणुकलभैः साकं नदीनिर्झर-
प्रस्थेष्वप्सु च रम्यभूमिषु चरन् पर्णाम्बुभोजी मुनिः ।
अब्दानत्र तु षट्सहस्रयुगलीसङ्ख्यानमीषामसौ
भक्ष्याभक्ष्यसुखासुखेङ्गितहितानिष्टादि सर्वं विदन् ॥ १९ ॥
</verse>
<verse lang="sa">मामङ्गाधिप ! सामगायनसुतं तं पालकाप्यं मुनिं
विद्धीत्यङ्गनृपोऽमुना मुनिवरेणोक्तः परं विस्मितः ।
सम्पृष्टोऽथ मुनिर्गजार्थममुना राज्ञा पुनस्तं नृपं
नागोत्पत्तिशुभादिलक्षणचिकित्साद्यं क्रमादब्रवीत् ॥ २० ॥
</verse>
<verse lang="sa">धर्मात्मिका सृष्टिरनेकपानां हिताय यज्ञस्य च दैवतानाम् ।
विशेषतो राजहिताय तस्माद् यत्नेन नागाः खलु रक्षणीयाः ॥ २१ ॥
</verse>
<verse lang="sa">मार्ताण्डस्य यतोऽण्डतो जनिरभूद् ब्रह्मर्षिभिर्दर्शितं
सन्दीप्तं किल तत्कपालयुगलं पाणिद्वयेनादरात् ।
सप्तागायदजः प्रगृह्य युगपत् सा[^१]मान्यथैरावतो
नागोऽभूदथ सप्त वारणवरा जाताः पृथग् गानतः ॥ २२ ॥
</verse>
<verse lang="sa">जाता दक्षिणहस्तसंस्थितकपालादेवमष्टौ गजा
वामस्थाच्च वशाः क्रमेण जनिता जायाश्च तेषामथ ।
[^</verse>
<footnote mark="१] ." lang="sa">सामगानजन्यत्वादेव गजानां सामजत्वम् ।</footnote>
</page>
<verse lang="sa">मूत्रेणेन्द्रियमस्रवत् तदपिबद् गेहं प्रविष्टे मुनौ
शीघ्रं गर्भमधत्त सा च करिणी सूते स्म पुत्रं मुखात् ॥ १७ ॥
<verse lang="sa">दत्वा तं मुनये मुदा निजसुतं सन्त्यज्य सा हस्तिनी-
भावं चाथ दिवं जगाम सहसा शापाद् विमुक्ता सुखम् ।
प्रीतोऽसावथ सामगायनमुनिस्तज्जातकर्मादिकं
कृत्वाख्यामपि पालकाप्य इति दिव्योक्त्या चकारास्य च ॥ १८ ॥
<verse lang="sa">सोऽक्रीडच्च गजैः करेणुकलभैः साकं नदीनिर्झर-
प्रस्थेष्वप्सु च रम्यभूमिषु चरन् पर्णाम्बुभोजी मुनिः ।
अब्दानत्र तु षट्सहस्रयुगलीसङ्ख्यानमीषामसौ
भक्ष्याभक्ष्यसुखासुखेङ्गितहितानिष्टादि सर्वं विदन् ॥ १९ ॥
<verse lang="sa">मामङ्गाधिप ! सामगायनसुतं तं पालकाप्यं मुनिं
विद्धीत्यङ्गनृपोऽमुना मुनिवरेणोक्तः परं विस्मितः ।
सम्पृष्टोऽथ मुनिर्गजार्थममुना राज्ञा पुनस्तं नृपं
नागोत्पत्तिशुभादिलक्षणचिकित्साद्यं क्रमादब्रवीत् ॥ २० ॥
<verse lang="sa">धर्मात्मिका सृष्टिरनेकपानां हिताय यज्ञस्य च दैवतानाम् ।
विशेषतो राजहिताय तस्माद् यत्नेन नागाः खलु रक्षणीयाः ॥ २१ ॥
<verse lang="sa">मार्ताण्डस्य यतोऽण्डतो जनिरभूद् ब्रह्मर्षिभिर्दर्शितं
सन्दीप्तं किल तत्कपालयुगलं पाणिद्वयेनादरात् ।
सप्तागायदजः प्रगृह्य युगपत् सा[^१]मान्यथैरावतो
नागोऽभूदथ सप्त वारणवरा जाताः पृथग् गानतः ॥ २२ ॥
<verse lang="sa">जाता दक्षिणहस्तसंस्थितकपालादेवमष्टौ गजा
वामस्थाच्च वशाः क्रमेण जनिता जायाश्च तेषामथ ।
[^
<footnote mark="१
</page>