This page has been fully proofread once and needs a second look.

मूत्रेणेन्द्रियमस्रवत् तदपिबद् गेहं प्रविष्टे मुनौ
शीघ्रं गर्भमधत्त सा च करिणी सूते स्म पुत्रं मुखात् ॥ १७ ॥
 
दत्वा तं मुनये मुदा निजसुतं सन्त्यज्य सा हस्तिनी-
भावं चाथ दिवं जगाम सहसा शापाद् विमुक्ता सुखम् ।
प्रीतोऽसावथ सामगायनमुनिस्तज्जातकर्मादिकं
कृत्वाख्यामपि पालकाप्य इति दिव्योत्त्या चकारास्य च ॥ १८ ॥
 
सोऽक्रीडच्च गजैः करेणुकलभैः साकं नदीनिर्झर-
प्रस्थेष्वप्सु च रम्यभूमिषु चरन् पर्णाम्बुभोजी मुनिः ।
अब्दानत्र तु षट्सहस्रयुगलीसङ्ख्यानमीषामसौ
भक्ष्याभक्ष्यसुखासुखेङ्गितहितानिष्टादि सर्वं विदन् ॥ १९ ॥
 
मामङ्गाधिप ! सामगायनसुतं तं पालकाप्यं मुनिं
विद्धीत्यङ्गनृपोऽमुना मुनिवरेणोक्तः परं विस्मितः ।
सम्पृष्टोऽथ मुनिर्गजार्थममुना राज्ञा पुनस्तं नृपं
नागोत्पत्तिशुभादिलक्षणचिकित्साद्यं क्रमादब्रवीत् ॥ २० ॥
 
धर्मात्मिका सृष्टिरनेकपानां हिताय यज्ञस्य च दैवतानाम् ।
विशेषतो राजहिताय तस्माद् यत्नेन नागाः खलु रक्षणीयाः ॥ २१ ॥
 
मार्ताण्डस्य यतोऽण्डतो जनिरभूद् ब्रह्मर्षिभिर्दर्शितं
सन्दीप्तं किल तत्कपालयुगलं पाणिद्वयेनादरात् ।
सप्तागायदजः प्रगृह्य युगपत् सा[^१]मान्यथैरावतो
नागोऽभूदथ सप्त वारणवरा जाताः पृथग् गानतः ॥ २२ ॥
 
जाता दक्षिणहस्तसंस्थितकपालादेवमष्टौ गजा
वामस्थाच्च वशाः क्रमेण जनिता जायाश्च तेषामथ ।
 
[‍^१] सामगानजन्यत्वादेव गजानां सामजत्वम् ।