This page has been fully proofread once and needs a second look.

प्रालेयाद्रेरुदीच्यां दिशि वटविटपिपी द्वे शते योजनानां
विस्तारायामयुक्तो भवति गजवरास्ते तु तस्मिन् निपेतुः ॥ ११ ॥
 
शाखा तैः परिपाटिताश्रमपदे तत्र स्थितस्तापसो
नाम्ना दीर्घतपास्ततः कुपितवान् नागान् शशापाञ्जसा ।
तस्मात् ते खलु कामचाररहिता नागा बभूवुर्गता
मर्त्यानामपि वाहनत्वमथ नो शप्तास्तु दिक्कुञ्जराः ॥ १२ ॥
 
दिङ्नागाः सह सर्वकुञ्जरकुलैर्गत्वाब्रुवन् पद्मजं
देवास्मत्कुलजन्मनां विर्धिवशाद् भूमिं गतानामथ ।
रोगाः स्युर्विषमातिभोजनविरुद्धाजीर्णभुक्तादिभिः
प्रोक्तस्तैरतिदुःखितैरिति पुनस्तान् प्रोक्तवान् पद्मभूः ॥ १३ ॥
 
कश्चिन्नातिचिराद् भविष्यति परं मातङ्गबन्धुर्मुनि-
स्त्वायुर्वेदपरायणोऽतिनिपुणीणो व्याधीन् हरिप्यत्यसौ ।
इत्युक्ता दिगनेकपाश्च विधिना याता यथास्वं दिशं
दिङ्मातङ्गकुलोद्भवाश्च पृथिवीं याताः परे शापतः ॥ १४ ॥
 
धात्रा यक्षनरामुरामग्सुरामरुचः संगृह्य वाणीव या
सृष्टा सा रुचिरा कदापि विधिना शप्ताथ दुर्गर्वतः ।
तस्मात् सोसा[‍^१] वसुकन्यका गुणवती नाम्नाभवद् भार्गवात्
सैषाथाश्रममागता व्रत मतङ्गस्यातिकौतूहलात् ॥ १५ ॥

शक्रेण प्रहिता त्वियं मम तपोविज्ञाय घ्नाय वेनेनेति सा

शप्ता प्राप करेणुतां मुनिरथ ज्ञात्वानवांघां तां क्षणात् ।
भद्रे ! हस्तिनि ! सामगायनमुनेः शुक्लप्रपानाद् यदा

पुत्रस्ते भविता तदा तव भवेच्छापान्त इत्यब्रवीत् ॥ १६ ॥

यक्षी काचन सामगायनमुनिनिं स्वप्ने समापैकदा
गत्वाथाश्रमतो बहिर्मुनिवशेरो मूत्रं चकाराञ्जसा ।
१.
[‍^१]
'वासुकिक' ग. पाट:
 
ठः