This page has been fully proofread once and needs a second look.

चम्पां प्राप्ता नृपेणासनकुसुमजलाद्यैः समाराधितास्ते
वन्यान् नागान् ग्रहीतुं प्रददुरथ वरं चादरादङ्गपाय ॥ ५ ॥
 
राज्ञा तेन गजग्रहाय सचिवा नुन्नाश्ररन्तो वने
तेऽपश्यन् पथि सानगायनतृपिं तिष्ठन्तमप्याश्रमे ।
आराद्वारणयूथमत्र विहस्तं पालकाप्यं मुनिं
श्रीमन्तं गजयूथगं विरहितं तेनापि सन्ध्यासु तत् ॥ ६ ॥
 
अङ्गेशाय निवेदितं तदखिलं भृत्यैः स गत्वा गजा-
नस्मिन्नाश्रमगे मुनावथ गृहीत्वागत्य चम्पां क्षणात् ।
एतान् गौतमनारदादिमुनिवर्येभ्यो ददौ ते पुनः
स्तम्भे तान् सुदृढं नियम्य मुखमत्रोपुस्तथान्ये जनाः ॥ ७ ॥
 
शुश्रूषाद्यं च कृत्वा मुनिरथ जनकस्याश्रमात् पालकाप्य-
स्तं देशं प्राप्य यत्र स्थितमश्र गजयूथं तदस्मिन्नदृष्टा ।
सर्वत्रान्विष्य चम्पां मुनिरथ गतवान् स्नेहतो व्याकुलात्मा
नागानां दुःखितानां व्रणशमनचिकित्सादिरक्षां चकार ॥ ८ ॥
 
तत्रस्था गौतमाद्या ददृशुरथ मनिमुनिं मौनसम्पन्नमेनं
श्रीमन्तं हस्तियूथस्थितमपि मुनयस्तत्र पप्रच्छुरेनम् ।
कस्मात् तेषां व्रणाँल्लिम्पसि गजनिवहे ते दया केन जाते-
त्येतैः संपृच्छ्यमानो मुनिभिरपि स किञ्चिन्न च प्रत्युवाच ॥ ९ ॥

तद्वृत्तान्तं मुनीन्द्रैर्गदितमथ निशम्याङ्गराजोऽत्र गत्वा
पाद्यार्थ्ध्याद्यैः समाराध्य च मुनिमनु तज्जन्मनामादि सर्वम् ।
पप्रच्छ श्रोतुकामः क्षितिपतिरगुना तापसेनाथ किञ्चि
-
न्नोक्तो भूयोऽप्यपृच्छन्मुनिममुलनचंननघं भक्तिनम्रो नरेन्द्रः ॥ १० ॥

अङ्गेशं पालकाप्यो मुनिरथ परोरितुष्टोऽब्रवीत् कामचारा
मातङ्गाः कामरूपा दिवि भुवि च यथेष्टं पुरा सञ्चरन्तः ।