This page has been fully proofread twice.

<page>
<p lang="sa"><fix>॥</fix> श्रीः ॥</p>
<subtitle lang="sa">श्रीनीलकण्ठकृता</subtitle>
<title lang="sa">मातङ्गलीला ।</title>
<heading lang="sa">प्रथमः पटलः ।</heading>
<verse n="1.1" lang="sa">नृसिंहयादवौ दैत्यसमूहोग्राटवीदवौ ।
राजमानौ भजे राजराजमङ्गलवासिनौ ॥ १ ॥</verse>
<verse lang="sa">मातङ्गवक्त्रं प्रणिपत्य दृष्ट्वा मातङ्गशास्त्रं मुनिपुङ्गवोक्तम् ।
मातङ्गलीलाच[‍^१]लितान्तरात्मा मातङ्गलीलां रचयामि तावत् ॥ २ ॥</verse>
<verse lang="sa">उत्पत्तिः शुभलक्षणान्यशुभलक्ष्मायुर्वयोलक्षणं
मानं मूल्यविशेषसत्त्वमदभेदाश्च क्रमाद् दन्तिनाम् ।
वन्यानां ग्रहणं च रक्षणदिनर्त्वाचारभेदादिकं
नागाध्यक्षगुणादिकं च सकलं सङ्क्षेपतो वक्ष्यते ॥ ३ ॥</verse>
<verse lang="sa">आसीदङ्गाधिराजः सुरपतिसदृशो विश्रुतो रोमपादो
गङ्गातीरे कदाचित् परिजनसहितः सोऽथ चम्पानगर्याम् ।
आसीनो रत्नपीठे विपिनगजकृतं सर्वसस्यादिनाशं
कैश्चिद्विज्ञापितोऽचिन्तयदवनिपतिः किं नु कार्यं मयेति ॥ ४ ॥</verse>
<verse lang="sa" merge-next="true">कालेऽस्मिन् गौतमो नारदभृगुमृगचर्माग्निवेश्यारिभेदाः
काप्यो मातङ्गचार्यादय ऋषिवृषभा दैवतानां नियोगात् ।</verse>
<footnote mark="१." lang="sa">&apos;चरिता&apos; ख. पाठः</footnote>
</page>