2023-09-26 04:48:23 by Bharadwajraki
This page has been fully proofread twice.
श्रीः ॥
श्रीनीलकण्ठकृता
मातङ्गलीला ।
प्रथमः पटलः ।
नृसिंहयादवौ दैत्यसमृमूहोग्राटवीदवौ ।
राजमानौ भजे राजराजमङ्गलवासिनौ ॥ १ ॥
मातङ्गवक्त्रं प्रणिपत्य दृष्ट्वा मातङ्गशास्त्रं मुनिपुङ्गवोक्तम् ।
मातङ्गलीलाच[^१]लितान्तरात्मा मातङ्गलीलां रचयामि तावत् ॥ २ ॥
उत्पत्तिः शुभलक्षणान्यशुभलक्ष्मायुर्वयोलक्षणं
मानं मूल्यविशेषसत्त्वमदभेदाश्च क्रमाद् दन्तिनाम् ।
वन्यानां ग्रहणं च रक्षणदिनर्त्वाचारभेदादिकं
नागाध्यक्षगुणादिकं च सकलं सङ्क्षेपतो वक्ष्यते ॥ ३ ॥
आसीदङ्गाधिराजः सुरपतिसदृशो विश्रुतो रोमपादो
गङ्गातीरे कदाचित् परिजनसहितः सोऽथ चम्पानगर्याम् ।
आसीनो रत्नपीठे विपिनगजकृतं सर्वसस्यादिनाशं
कैश्चिद्विज्ञापितोऽचिन्तयदवनिपतिः किं नु कार्येयं मयेति ॥ ४ ॥
कालेऽस्मिन् गौतमो नारदभृगुमृगचर्माग्निवेश्यारिमेभेदाः
काप्यो मातङ्गचार्यादय ऋषिवृषभा दैवतानां नियोगात् ।
[^१] 'चरिता' ख. पाठ:.
ठः
श्रीनीलकण्ठकृता
मातङ्गलीला ।
प्रथमः पटलः ।
नृसिंहयादवौ दैत्यस
राजमानौ भजे राजराजमङ्गलवासिनौ ॥ १ ॥
मातङ्गवक्त्रं प्रणिपत्य दृष्ट्वा मातङ्गशास्त्रं मुनिपुङ्गवोक्तम् ।
मातङ्गलीलाच[^१]लितान्तरात्मा मातङ्गलीलां रचयामि तावत् ॥ २ ॥
उत्पत्तिः शुभलक्षणान्यशुभलक्ष्मायुर्वयोलक्षणं
मानं मूल्यविशेषसत्त्वमदभेदाश्च क्रमाद् दन्तिनाम् ।
वन्यानां ग्रहणं च रक्षणदिनर्त्वाचारभेदादिकं
नागाध्यक्षगुणादिकं च सकलं सङ्क्षेपतो वक्ष्यते ॥ ३ ॥
आसीदङ्गाधिराजः सुरपतिसदृशो विश्रुतो रोमपादो
गङ्गातीरे कदाचित् परिजनसहितः सोऽथ चम्पानगर्याम् ।
आसीनो रत्नपीठे विपिनगजकृतं सर्वसस्यादिनाशं
कैश्चिद्विज्ञापितोऽचिन्तयदवनिपतिः किं नु कार्
कालेऽस्मिन् गौतमो नारदभृगुमृगचर्माग्निवेश्यारि
काप्यो मातङ्गचार्यादय ऋषिवृषभा दैवतानां नियोगात् ।
[^१] 'चरिता' ख. पा