This page has been fully proofread once and needs a second look.

माधूकपुष्पमधुकालवचाश्वगन्धा-
बिल्वं पलाण्डुमरिचं च समं सुपिष्ट्वा[^*] ।
गोमूत्रकेण परिलेपितमङ्कुशाग्रे
यस्तेन चोदित इभः स वशं प्रयाति ॥ २२ ॥
 
कोशातकीक्षा[^१]रकटुत्रया[^२]लसिद्धार्थका[^१]रुष्करचूर्णमेतत् ।
तिक्ताह्वसिन्धूत्थविलङ्गयुक्तं सृणिप्रलिप्तं गजवश्यमाहुः ॥ २३ ॥
 
शतपदीकृकलासशिरःशिलातुरगपित्तमृगाङ्गरुहैः कृतम् ।
भुजगकञ्चुकवृश्चिकसंयुतैः सृणिषु लेपमनेकपदर्पहृत् ॥ २४ ॥
 
पार्श्वयोरुभयोश्चैव निष्कोशद्वितयेऽपि च ।
पुच्छमूले गदाघातमिति पञ्चविधं विदुः ॥ २५ ॥
 
कर्णद्व्यङ्घ्रिचतुष्कास्यैः संप्लुत्या चैवमष्टधा ।
गजारोहोऽनुधावद्भिः पृष्ठतः सा तु संप्लुतिः ॥ २६ ॥
 
पुच्छपादचतुष्कास्यपार्श्वकर्णद्वयैर्गजात् ।
अवरोहणमित्येवं दशधा कीर्त्तितं बुधैः ॥ २७ ॥
 
इत्येवं पालकाप्यो मुनिरिभचरितं व्याकरोद्रोमपादा-
यानन्दान्दोलितात्मा नृपतिरथ मुनिं पूजयन्नर्घ्यपाद्यैः ।
अध्यासामास पृथ्वीं चिरतरमभिरक्षोद्यतोऽलं दयावा-
नस्तप्रत्यर्थिपृथ्वीपतिरखिलजगद्रक्षणे जागरूकः ॥ २८ ॥
 
रोमेति नाम पद्मस्य विख्यातं पूर्वसूरिभिः ।
तेनैवाङ्कितपादत्वाद् रोमपाद इति स्मृतः ॥ २९ ॥
 
[^१] 'क्षीर' ग-पाठः ।
 
[^२] 'याश्व' ग-पाठः ।
 
[^३] 'कारस्क' ग-पाठः ।
 
[^*] 'सपिष्य' इति स्यात् ।